अन्तराधिकरणम् ॥ 3 ॥
अन्तर उपपत्तेः ॥ 13 ॥
‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म’ (छा.उ. 4.15.1) इत्यत्र अक्ष्याधारः परमपुरुषः निरुपाधिकामृतत्वाभयत्वसंयमद्वामत्वादीनामस्मिन्नेवोपपत्तेः ॥ 13 ॥
स्थानादिव्यपदेशाच्च ॥ 14 ॥
‘यश्चक्षुषि तिष्ठन्’ (बृ.उ. 5.7.18) इत्यादिना स्थितिनियमनादिव्यपदेशाच्चायं परः ॥ 14 ॥
सुखविशिष्टाभिधानादेव च ॥ 15 ॥
‘कं ब्रह्म खं ब्रह्म’ (छा.उ. 4.10.5) इति पूर्वत्रास्यैव सुखविशिष्टतया अभिधानाच्चायं परः ॥ 15 ॥
अत एव च स ब्रह्म ॥ 16 ॥
यतस्तत्र भवभीताय उपकोसलाय ब्रह्मजिज्ञासवे ‘कं ब्रह्म खं ब्रह्म’ (छा.उ. 4.10.5) इत्युपदिष्टः ‘यद्वाव कं तदेव खम्’ (छा.उ. 4.10.5) इति सुखरूपः, अतस्सुखशब्दाभिधेय आकाशः परमेव ब्रह्म ॥ 16 ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ 17 ॥
श्रुतब्रह्मस्वरूपाणामधिगन्तव्यतया अर्चिरादिगतेरक्षिपुरुषं श्रुतवते ‘तेऽर्चिषमेवाभिसंभवन्ति’ (छा.उ. 4.15.5) इत्यादिनाऽभिधानाच्चायं परमपुरुषः ॥ 17 ॥
अनवस्थितेरसम्भवाच्च नेतरः ॥ 18 ॥
परस्मादितरो जीवादिर्नाक्ष्याधारः, चक्षुषि नियमेन अनवस्थितेः, अमृतत्वाद्यसंभवाच्च ॥ 18 ॥