13 अत्त्रधिकरणम्

अत्त्रधिकरणम् ॥ 2 ॥
अत्ता चराचरग्रहणात् ॥ 9 ॥
‘यस्य ब्रह्म च क्षत्रञ्चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥’ (कठ.उ. 2.25) इत्यत्र ओदनोपसेचनसूचितोऽत्ता परमपुरुषः, ब्रह्मक्षत्रोपलक्षितस्य चराचरस्य कृत्स्नस्य मृत्यूपसेचनत्वेन अदनीयतया ग्रहणात् ॥ 9 ॥

प्रकरणाच्च ॥ 10 ॥
‘महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ नायमात्मा प्रवचनेन लभ्यः’ (कठ.उ. 2.22-23) इत्यादिना परस्यैव प्रकृतत्वात् स एवायम् ॥ 10 ॥

गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ 11 ॥
अनन्तरम् ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये’ (कठ.उ. 1.3.1) इत्यादिना जीवपरमात्मानावेव प्रयोज्यप्रयोजकभावेन कर्मफलाशनेऽन्वयादुपदिष्टौ, तयोरेवास्मिन् प्रकरणे गुहाप्रवेशदर्शनात् । ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितम्’ (कठ.उ. 1.2.12) इति परस्य, ‘या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती’ (कठ.उ. 2.4.7) इति जीवस्य । कर्मफलादनाददितिर्जीवः ॥ 11 ॥

विशेषणाच्च ॥ 12 ॥
जीवपरावेव हि सर्वत्रास्मिन्प्रकरणे विशेष्येते, ‘न जायते म्रियते वा विपश्चित्’ (क.उ. 1.2.18) इत्यादौ जीवः ‘अणोरणीयान् महतो महीयान्’ (क.उ. 1.2.20) ‘महान्तं विभुमात्मानम् … नायमात्मा प्रवचनेन’, (क.उ. 1.2.22) ‘विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥’ (क.उ. 1.3.9) इत्यादिषु परः, ‘त्रिपादस्यामृतं दिवि’ (तै.आ. 3.12.2), ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषु उत्तमेषु लोकेषु’ (छा.उ. 3.13.7) इति, विश्वतः - प्राकृतात् स्थानात् । परं विष्णोः - परस्थानमेव हि संसाराध्वनः पारभूतं मुमुक्षुभिः प्राप्यम् । ‘परमं पदं सदा पश्यन्ति सूरयः’ (ऋ.सं. 1.22.20), ‘तदक्षरे परमे व्योमन्’ (तै.आ. 6.1.1), ‘क्षयन्तमस्य रजसः पराके’ (ऋ.सं. 7.100.5), ‘विश्वं पुराणं तमसः परस्तात्’ (तै.आ. 6.1.1), ‘ते ह नाकं महिमानस्सचन्ते । यत्र पूर्वे साध्यास्सन्ति देवाः’ (तै.आ. 3.12.7) इत्यादि सकलोपनिषत्प्रसिद्धम् ॥ 12 ॥