12 सर्वत्रप्रसिद्ध्यधिकरणम्

॥ अथ श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे प्रथमाध्यायस्य द्वितीयः पादः ॥1.2॥
सर्वत्र प्रसिद्ध्यधिकरणम् ॥ 1 ॥
सर्वत्र प्रसिद्धोपदेशात् ॥ 1 ॥
‘सर्वं खल्विदम्’ (छा.उ. 3.14.1) इति निर्दिष्टेन सामानाधिकरण्येन निर्दिष्टं ब्रह्म परमात्मा । कुतः? प्रसिद्धोपदेशात् - ‘तज्जलान्’ (छा.उ. 3.14.1) इति हेतुतः सर्वात्मकत्वोपदेशादित्यर्थः । प्रसिद्धं हि हेतुतया व्यपदिश्यते । सकलोपनिषत्सु ब्रह्मैव हि जगज्जन्मलयजीवनहेतुतया प्रसिद्धम् ‘यतो वा इमानि’ (तै.आ. 5.15.1) इत्यादिषु ॥ 1 ॥

विवक्षितगुणोपपत्तेश्च ॥ 2 ॥
मनोमयत्वसत्यसङ्कल्पत्वादयो विवक्षितगुणाः ब्रह्मण्येवोपपद्यन्ते ॥ 2 ॥

अनुपपत्तेस्तु न शारीरः ॥ 3 ॥
दुःखमिश्रपरिमितसुखलवभागिनि शारीरे त्वेषां गुणानामनुपपत्तेर्न शारीरोऽयम् ॥ 3 ॥

कर्मकर्तृव्यपदेशाच्च ॥ 4 ॥
‘एतमितः प्रेत्याभिसंभवितास्मि’ (छा.उ. 3.14.4) इति अभिसंभाव्याभिसंभवितृत्वेन प्रस्तुतब्रह्मजीवयोर्व्यपदेशात् अभिसंभाव्यं ब्रह्म जीवादर्थान्तरम् ॥ 4 ॥

शब्दविशेषात् ॥ 5 ॥
‘एष म आत्मान्तर्हृदये’ (छा.उ. 3.14.3) इति षष्ठ्या प्रथमया च जीवो ब्रह्म च व्यपदिश्यते । ततश्चार्थान्तरम् ॥ 5 ॥

स्मृतेश्च ॥ 6 ॥
अत्रापि प्रथमया निर्दिष्टः पुरुषोत्तम इति निश्चीयते । ‘सर्वस्य चाहं हृदि सन्निविष्टः’ (भ.गी. 15.15) इति हि स्मृतिः ॥ 6 ॥

अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ 7 ॥
‘एष म आत्मान्तर्हृदये अणीयान् व्रीहेः’ (छा.उ. 3.14.3) इत्यादिनाऽल्पायतनत्वात्, स्वरूपाल्पत्वस्य व्यपदेशाच्च, नायं पर इति चेन्न । उपास्यत्वाद्धेतोः तथाव्यपदेशः न तु स्वरूपाल्पत्वेन । व्योमवत्, स्वरूपमहत्वं चात्रैव व्यपदिश्यते ‘ज्यायान् पृथिव्याः ज्यायानन्तरिक्षात्’ (छा.उ. 3.14.3) इत्यादिना ॥ 7 ॥

सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ 8 ॥
परोऽप्यन्तश्शरीरे वसति चेत्, जीववत् सुखदुःखोपभोगप्राप्तिस्स्यादिति चेन्न, हेतुवैशेष्यात् । परस्य हि छन्दतो जीवरक्षायै शरीरान्तर्वासः ॥ 8 ॥