06 आनन्दमयाधिकरणम्

आनन्दमयाधिकरणम् ॥ 6 ॥
आनन्दमयोऽभ्यासात् ॥ 13 ॥
यद्यपि प्रधानादर्थान्तरभूतस्य प्रत्यगात्मनश्चेतनस्य ईक्षणयोगस्सम्भवति, तथाऽपि प्रत्यगात्मा बद्धो मुक्तश्च न जगत्कारणं, ‘तस्माद्वा एतस्मादात्मन आकाशस्संभूतः’ (तै.आ. 5.14.1) इत्यारभ्य ‘तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमयः’ (तै.आ. 5.14.5) इति तस्यानन्दमयत्वप्रतिपादनात् । कारणतया व्यपदिष्टोऽयमानन्दमयः प्रत्यगात्मनोऽर्थान्तरभूतः सर्वज्ञः परमात्मैव । कुतः? अभ्यासात् - आनन्दमयस्य निरतिशयदशाशिरस्कानन्दमयत्वेनाभ्यासात् । ‘ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः’ (तै.आ. 5.14.8), ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चन’ (तै.आ. 5.14.9) इति हि वेद्यत्वेनायमानन्दमयोऽनवधिकातिशयोऽभ्यस्यते ॥ 13 ॥

विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ 14 ॥
‘स वा एष पुरुषोऽन्नरसमयः’ (तै.आ. 5.14.1) इति विकारार्थमयट्प्रकरणात् ‘आनन्दमयः’ इत्यस्यापि विकारार्थत्वं प्रतीयते । अतोऽयमानन्दमयः नाविकाररूपः परमात्मा, इति चेन्न; अर्थविरोधात्, प्राचुर्यार्थ एवायं मयडिति विज्ञायते । ‘तस्माद्वा एतस्मादात्मन आकाशस्संभूतः’ (तै.आ. 5.14.1) इति ह्यविकार आत्मा प्रकृतः । प्रकरणे च विकारार्थत्वं प्राणमय एव परित्यक्तम् । उक्तेन न्यायेन आनन्दप्राचुर्यात् परमपुरुष एवानन्दमयः ॥ 14 ॥

तद्धेतुव्यपदेशाच्च ॥ 15 ॥
‘एष ह्येवानन्दयाति’ (तै.आ. 5.14.7) इति जीवान्त्प्रत्यानन्दहेतुरयमानन्दमयो व्यपदिश्यते । अतश्चायं न प्रत्यगात्मा ॥ 15 ॥

मान्त्रवर्णिकमेव च गीयते ॥ 16 ॥
‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै.आ. 5.14.1) इति मन्त्रवर्णोदितमेव ‘तस्माद्वा एतस्मात्’ (तै.आ. 5.14.1) इत्यादिना आनन्दमय इति गीयते । अतश्च न प्रत्यगात्मा ॥ 16 ॥

नेतरोऽनुपपत्तेः ॥ 17 ॥
इतरः - प्रत्यगात्मा मन्त्रवर्णोदित इति नाशङ्कनीयम्, ‘सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता’ (तै.आ. 5.14.1) इति प्रत्यगात्मनो बद्धस्य मुक्तस्य च ईदृशविपश्चित्त्वानुपपत्तेः । ‘सोऽकामयत । बहु स्यां प्रजायेय’ (तै.आ. 5.14.6) इति विचित्रस्थिरत्रसरूपबहुभवनसङ्कल्परूपमिदं विपश्चित्त्वमिति ह्युत्तरत्र व्यज्यते । मुक्तस्य सर्वज्ञस्यापि जगद्व्यापाराभावादीदृशविपश्चित्त्वासम्भवः ॥ 17 ॥

इतश्च -
भेदव्यपदेशाच्च ॥ 18 ॥
‘तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योन्तर आत्मानन्दमयः’ (तै.आ. 5.14.5) इति हि विज्ञानमयात् प्रत्यगात्मनो भेदेनायमानन्दमयो व्यपदिश्यते । न च विज्ञानमयविषयतया उदाहृते श्लोके ‘विज्ञानं यज्ञं तनुते’ (तै.आ. 5.14.5) इति व्यपदेशात् विज्ञानमयो बुद्धिमात्रमित्याशङ्कनीयम् । यतस्सूत्रकार एव इमामाशङ्कां परिहरिष्यति - ‘व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः’ (ब्र.सू. 2.3.35) इति । ‘विज्ञानं यज्ञं तनुते’ (तै.आ. 5.14.5) इति यज्ञादिक्रियायां जीवस्य कर्तृत्वव्यपदेशाच्च जीवः कर्ता, विज्ञानशब्देन जीवस्य व्यपदेशात् । बुद्धिमात्रव्यपदेशे तु विज्ञानेनेति निर्देशविपर्ययस्स्यात्, बुद्धेः करणत्वादिति ॥ 18 ॥

इतश्च -
कामाच्च नानुमानापेक्षा ॥ 19 ॥
‘सोऽकामयत । बहु स्याम्’ (तै.आ. 5.14.6) इति स्वकामादेवास्य जगत्सर्गः श्रूयते । प्रत्यगात्मनो हि यस्य कस्यचित्सर्गे आनुमानापेक्षा दृश्यते । अनुमानगम्यं प्रधानम् - आनुमानम् ॥ 19 ॥

इतश्च -
अस्मिन्नस्य च तद्योगं शास्ति ॥ 20 ॥
अस्मिन् - आनन्दमये, अस्य - प्रत्यगात्मनः, आनन्दयोगं शास्ति ‘रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति’ (तै.आ. 5.14.7) इति । अतः प्रत्यगात्मनोऽर्थान्तरभूतः सर्वज्ञः पुरुषोत्तमो जगत्कारणभूत आनन्दमयः ॥ 20 ॥