कार्यं बादरिरस्य गत्युपपत्तेः। ॥4.3.6॥
किमर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान्नयति उत परं ब्रम्होपसीनान् अथपरं ब्रम्होपासीनान् प्रत्यगात्मानं ब्रम्हात्मकतयोपासीनांश्चेति संशयः कार्यं हिरण्यगर्भमुपासीनानिति पूर्वः पक्षः तेषामेव गत्युपपत्तेः । न हि परिपूर्णं सर्वगतं परं ब्रम्हेपासीनानां तत्प्राप्तये गतिरूपपद्यते, नित्यप्रप्तत्वात् । अविद्यानित्तिरेव हि कार्या परमेवोपासीनानित्यपरः" पक्षः, *स एनान्ब्रह्मगमयतीति ब्रह्मशब्दस्य तत्रैव मुख्यत्वात्। अविद्यानिवृत्तेः फलाभिसन्धिरहितयज्ञाद्यपेक्षत्वात् श्रवणाद्यपेक्षावच्च गतिश्रुत्या देशविशेषआपेक्षआ च विद्यत इति निश्चीयते। राद्धान्तस्तु – परमुपासीनान्यन्यान्यपि नयति, तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेर्चिषमभिसंभवन्तिइति पञ्चाग्निविदां परं ब्रह्मोपासीनानां चार्चिरादिगतिश्रुतेः। पञ्चाग्नविदो हि प्रकृतिविमुक्तब्रह्मात्मकात्मस्वरूपविदः। तेच तत्प्राप्त्य पुनर्न निवर्तन्ते। परं ब्रह्मोपासीनास्तु यथआवस्थितं परिपूर्णं परं ब्रह्मैव प्राप्य पुनर्न निवर्तन्ते। तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्तिइत्युभयविधान्भेदोपादायार्चिरादिश्रुतेरपुनरावृत्तिश्रुतेश्चैवमिति निश्चीयते।। सूत्रार्थस्तु -कार्यं हिरण्यरगर्भमुपासीनमातिवाहिको गणो नयतीति बादरिराचार्यो मन्यते, अस्यैव गत्युपपत्तेः परमुपासीनस्य हि न तत्प्राप्तये गतिरुपपद्यते, सर्वगतत्वात्परस्य ब्रह्मणः।।
विशेषितत्वाच्च। ॥4.3.7॥
पुरुषोमानव एत्य ब्रह्मलोकान्गमयतिइतिप्रजापतेस्सभां वेश्म प्रपद्ये *इति च प्राप्यस्थानस्यविशेषितत्वाच्च हिरण्यगर्भमुपासीनमेव नयति।।
सामीप्यात्तु तद्व्यपदेशः। ॥4.3.8॥
एवं निश्चिते सति *स एनान्ब्रह्म गमयतीति हिरण्यगर्भस्य ब्रह्मशब्दव्यपदेशो ब्रह्मसामीप्यात्। *यो ब्रह्माणं विदधाति पूर्वम् *इति प्रथमजत्वेन ब्रह्मसामीप्यं हि विद्यते।।
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्। ॥4.3.9॥
हिरण्यगर्भप्राप्तावप्यपुनरावृत्तिरुपपद्यते, कार्यस्य – हिरण्यगर्भलोकस्यात्यये, तदध्यक्षेण – हिरण्यगर्भेणाधिकारिकपुरुषेण विदुषा सह परप्राप्त्यभिधानात् ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वेइति।।
स्मृतेश्च। ॥4.3.10॥
*ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्।।इति स्मृतेश्चावगम्यते।।
परं जैमिनिर्मुख्यत्वात्। ॥4.3.11॥
परं ब्रह्मोपासीनमेव नयत्यातिवाहिको नयत्यातिवाहिकोगण गण इति जैमिनिराचार्यो मन्यते, * ब्रह्म गमयतीति ब्रह्मशब्दस्य तत्रैव मुखअयत्वात्। * ब्रह्मलोकेन * इति शब्दश्च ब्रह्मैव लोको ब्रह्मलोके इति कर्मधारयपरिग्रहस्यैव न्याय्यत्वादुपपद्यते।एवं निश्चिके सति बहुवचनं" च * अदितिः पाशान् * इतिवदुपपन्नम्।।
दर्शनाच्च। ॥4.3.12॥
- अस्माच्छरीरात्समुत्थाय परं ज्योतिरिपसंपद्य स्वंन रूपेणाभिनिष्पद्यते * इत्यर्चिरादिना गतस्य परब्रह्मप्राप्तिं दर्शयति च।।
न च कार्ये प्रत्यभिसन्धिः। ॥4.3.13॥
प्रजापतेस्सभां वेश्म प्रपद्ये * इति प्रत्यभिसन्धिश्च न कार्ये * धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि * इत्यकृतं" ब्रह्मलोकमिति तत्रैव विशेषितत्वात्, * यशोऽहं भवामि ब्राह्मणानाम् * इति सर्वात्मभावभिसंधानाच्च।।
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च। ॥4.3.14॥
कार्यमुपासीनानेवेति नायं नियमः, परमेवोपासीनानित्यमपि नियमो न संभवति। कुतः ? उभयथा च दोषात् – कार्यमुपासीननेवेति नियमे * अस्माच्छरीर्समुत्थाय परं ज्योतिरूपसंपद्य स्वेन पूपेणाभिनिष्पद्यते * इत्यादिकाश्श्रुतयः, * य चेमेऽरण्ये श्रद्धा तपः * इति च प्रकृप्येयुः ; परमेति नियमे * तद्य इत्थं विदुः * इति प्रकृप्येत्। तस्मादप्रतीकालम्बनान्नयतीति भगवान्बादरायणो मन्यते। प्रतीकालम्बनास्तु – अचिन्मिश्रम्, केवलमचिद्वस्तु च ‘सिंहो देवदत्तः ’ इतिवत् ब्रह्मदृष्ट्या स्वरूपेण वा तद्वस्तु य उपासते, ते ; अप्रतीकालम्बनाः – तद्वयतिरिक्ताः। सर्वज्ञं सर्वकारणं सत्यसङ्कल्पं निखइलहेयप्रत्यनीकानवधिकातिशयानन्दस्वरूपं ब्रह्मोपासते ये ये च प्रत्यगात्मनं भूतसूक्ष्मैस्संपरिषअवक्तिं सर्वत्र वर्तमानं भूतसूक्ष्मव्यतिरिक्तं ज्ञानैकस्वरुपं नित्यं निर्विकारं" * य आत्मनि तिष्ठन्नित्यादिनाऽवगतब्रह्मात्मभावं प़ञ्चाग्निवनिद्योदितमुपासते, तानुभयविधान्नयति, * तद्य इत्थं विदुर्ये चेमेऽरण्ये * इत्युभयविषयश्रुतेः। तत्क्रतुश्च – यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति * इत्युभयेषामेवापुनरावृत्तिस्संभवति। अचिन्मिश्रं केवलमचिद्वस्तु चोपासीनानां तत्क्रतुन्यायादेव पुनरावृत्तिरवर्जनीया।।
विशेषञ्च दर्शयति। ॥4.3.15॥
प्रतीकाद्युक्तलक्षणमचिन्मिश्रं केवलमचिद्वस्तु चोपासीनानां सर्वेषां गत्यनपेक्षं परिमितफललिशेषं च दर्शयति श्रुतिः – * यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति * इत्यादिका। अतः * ब्रह्मणा सह ते सर्वे * इति वचनं नार्चिरादिना गतानां गतिप्रकारविषयम्; अर्चिरादिना गतानां देहावसानसमय एव सुकृतदुष्ककृतयोर्हानाद्धिरण्यलोकावाप्तितद्वनासतत्रस्थभोगानुभवहेत्वभावात्, तत्करतुन्यायविरोधात्, तदानीमेव ब्रह्मप्राप्तिश्रुतिविरोधाच्च्। * ब्रह्ममा सह ते सर्वे * इति वचनं तु पुण्यकर्मविशेषेण हिरण्यगर्भलोकं प्राप्तानां * तदुपर्यरि बादरायणः * इति न्यायेन तत्रैव निष्पन्नविद्यानां गति प्रकारविषयम्। * ते ब्रह्मलोके * इति तु ब्रह्मलोकशब्दस्य कर्मधारयवृत्त्या ब्रह्मविशयत्वात् ब्रह्मण्युपास्ये वर्तमानाः परान्तकाले चरमदेहावसानसमये परामृतात् – परस्माद्ब्रह्मण उपासनप्रीताद्धेथोः, परिमुच्यन्ति सर्वे सर्वस्माद्बन्धाद्विमुच्यन्त इति * वेदान्तविज्ञानसुनुश्चितार्थाः * इति प्रकरणादवगम्यते। * तद्य इत्थं विदुरिति प़ञ्चाह्िविदां ब्रह्मप्राप्त्यपुनरागवृत्तिश्रवणात्तत्क्रतुन्याचिद्वियुक्तब्रह्मात्मकात्मस्वरूपोपासनं विवक्षितमिति निश्चीयते। तथैव तत्र श्रुतिरपि * इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति * इति * रमणीयचरणाः * इति च कर्महेतुकमनुष्यादिभावोऽपामेव भूतान्तरसंसृष्टानामिति चिदचिद्विवेकं प्रतिपाद्य * तद्य इत्थं विदुः * इति भूतसूक्ष्मव्यतिरिक्तात्मस्वरूपोपासनमेव विदधाति।। इति श्रीभाष्यवद्रामानुजविरचिते श्रीवेदान्तदीपे चतुर्थस्याध्यायस्य तृतीयपादः।।