26 आतिवाहिकाधिकरणम्

आतिवाहिकास्तल्लिङ्गात्। ॥4.3.4॥
किमर्चिरादयो विदुषो ब्रह्मप्रेप्सोर्मार्गचिह्नभूताः, उत गमयितार इति संशयः। ‘अमुकं वृक्षममुकां नदीममुकं पर्वतपार्श्वं गत्वाऽमुकं ग्रामं गच्छ’ इत्यादिदेशिकोपदेशप्रकारदर्शनान्मार्गचिह्नभूताः– इति पूर्वः पक्षः। राद्वान्तस्तु –€€€€ *स एनान्ब्रह्मगमयति * इति वैद्युतपुरुषस्य गमयितृत्वदर्शनात् इतरेषां चाविशेषनिर्दिष्टानां स एव संबन्ध इति निश्चीयते । अग्निलोकम् इत्यादि लोकशब्दोऽपि मध्ये भोगाभावाद्गमयितृत्व एवोपपद्यते । सूत्रार्थस्तु - आतिवाहिकः - वितुषामतिवाहेपरमपुरूषेणनियुक्तः,अर्चिराद्याभिमानिदेवताविशेषाः" गमयितरः इत्यर्थः सएनान्ब्रम्हगमयतीतिलिङ्गात्।।

वैद्युतेनैव ततस्तच्छ्रुतेः। ॥4.3.5॥
ततः विद्युत उपरि वैद्युतेन विदुषो गमनम् तच्छ्रुतेः। स एनान्ब्रम्ह गमयतीति तस्यैव श्रुते ः वरुणादीनां तदनुग्राहकत्वेन गमयितृत्वमिति निश्चीयत इत्यर्थः5 इतिआतिवाहिकाधिकरनम्।।