25 वरुणाधिकरणम्

तटितोऽधि वरुणस्सम्बन्धात्। ॥4.3.3॥
छान्दोग्यवाजसनेयककौषीतीप्रभृतिष्वाम्नातस्यार्चिरादिमार्गस्यार्चिरहरापूर्यमाणपक्षोत्तरायण संवत्सरवाय्वादित्यचन्द्रविद्युद्वरुणेन्दरप्रजापतिरूपस्योपसंहारे वायुर्पन्तस्य श्रुत्यादिङिः क्रमप्रकारः उक्तः।वरुनेन्द्रप्रजापतीनां किं विद्युत उपरि निवेशः , उत वायोरुपरीति संशयः स वायुलोकं सवरुणलोकम् इतिकौषीतकीपाठक्रमेणवायोरुपरि वरुणस्य निवेशः। इन्द्रादेरपि वरुणनिवेशाय वाय्वादित्ययोः क्रमस्य बाधितत्वात्तत्रैव वरुणोपरूति पूर्वः पक्षः। रान्द्वान्तस्तु– विद्युतो मेधोदरवर्तित्वेन विद्युद्वरुणयोर्लोके वेदे च संबन्धावगमात्पाठक्रमादर्थक्रमस्य बलीयस्त्वेन वरुणस्य विद्युत उपरि निवेशः। कार्यः। इन्द्रादेरपि वरुणनिवेशाय विद्युतो व्यवधानसहत्वदर्शनाद्वरुणोपरि निवेशः। सूत्रं" च व्याख्यातं।।3।। इति वरुणाधिकरणम्।।3।।