24 वाय्वधिकरणम्

वायुमब्दादविशेषविशेषाभ्याम् । ॥4.3.2॥
वायुरेवेति निश्चीयत इति।संवत्सरादूर्ध्वं वायुर्वायोरादित्य इति क्रमश्च स्यात्।सिद्धान्तस्तु–अब्दात्–संवत्सरादूर्ध्वं आदित्यात्पूर्वं" वायुमेकमेव निवेशयेत्, देवलोकवायुशब्दाभ्याम् अविशेषवेशेषाभ्यां वायुरेकस्यैव निर्दिष्टत्वात्।देवानां वासस्थानमित्यविशेषण हि देवलोकशब्दः वायुं देवानामावस्थानभूतमभिदधातिः वायुशब्दस्तमेव विशेषेणेति द्वयोः प्रकरणद्वयविहितयोरेकत्वादित्यर्थः।।