23 अर्चिराद्यधिकरणम्

अर्चिरादिना तत्प्रथितेः। ॥4.3.1॥
किं विद्वानर्चिरादिनैकेन मार्गेण गच्छति, उत तेन वाऽन्येनवेत्यनियम इति संशयः। तदर्थं परीक्ष्यते – किं सर्वासु श्रुतिष्वर्चिरादिरेक" एव सर्वत्रोक्तः तदा तेनैव गच्छति। यदा तत्रतत्राम्नाता अन्ये, तदाऽन्यैर्वाऽनेन वेत्यनियम इति। छान्दोग्यवाजसनेयकादिषु नानाविधाः" गतिप्रकाराश्श्रूयन्ते। छान्दोग्ये*यथा पुष्करपलाश आपो न श्लिप्यन्ते इत्युपक्रम्य, * सर्वाणि …. नयति सर्वेषु लोकेषु भाति य एवं वेद अथ यदुचैवास्मिञ्चछव्यं कुर्वन्ति यदुच नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्मासेभ्यसंवत्सरं संवत्सरादादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्य एनान्ब्रह्मगमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इति बृहदारण्यके * य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमित्युपासते तेऽर्चिषमभिसंभन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं वैद्युतातापुरुषो़ऽमानवस्स एत्य ब्रह्मलोकान्गमयति *इति। तत्रैवान्यथा * यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुलोकमागच्छति तस्मै स तत्र विजिहिते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् *इत्यादिषु। तेषां ब्रह्मप्राप्तौ नैरपेक्ष्यश्रवणात्तैर्वाऽर्चिरादिना वेति विकल्प इति पूर्व पक्षः। राद्धान्तस्तु — सर्वत्रार्चिराद्यन्तर्भूतादित्यादीनां दर्शनात्स एवेति प्रतयभिज्ञानात्, अन्यत्रोक्तानामन्त्रोपसंहाराच्च, सर्वत्रार्चिरादिरेक एव मार्ग इति तेनैव गच्छति विद्वान्। सूत्रार्थस्तु — अर्चिरादिनैव गच्छति विद्वान्, कुतः? ततप्रथितेः, प्रसिद्धिः —सर्वत्र तत्प्रत्यभिज्ञानादित्यर्थः।।