अतश्चाऽयनेऽपि दक्षिणे। ॥4.2.19॥
दक्षिणायने मृतस्य विगुषो ब्रह्मप्राप्तिरस्तिः, नेति संशयः। अथ यो दक्षिमे प्रमीयते पितृणामेव महिपानं गत्वा चन्द्रमसस्सायुज्यं" गच्छति इति विदुषो दक्षिणायने मृतस्य चन्द्रसायुज्यश्रवणात्, चन्द्रं प्राप्तानाम् *अथैतमेवाध्वानं पुनर्निवर्तन्ते *इति वचनाच्च, दक्षिणायनमृतस्य ब्रह्मप्राप्तिर्न संभवतीति पूर्वः पक्षः। राद्धान्तस्तु – पूर्वोक्ताद्बन्धहेत्वभावाद्विदुषस्चन्द्रं प्राप्तस्यापि पुनरावृत्तिर्न संभवति। चन्द्रसायुज्यवचनं विदुषो ब्रह्मप्रेप्सोर्विश्रमस्थानमात्रवियषम्, आवृत्तिवचनं त्वविदुषामेव।सूत्रार्थस्तु– यतो हेतोर्निशि मतस्यापि ब्रह्मप्राप्तिः, तत एव बन्धहेत्वभावाद्दक्षिमायने मृतस्यापि ब्रह्मप्राप्तिरस्त्येव।। ‘यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः’ इति मरणकालविशेषः स्मर्यत इति चेत्, तत्राह –
योगिनः प्रति स्मर्येते स्मार्ते चैते। ॥4.2.20॥
योगिनः – ब्रह्मविद्यानिष्ठान्प्रति एते – देवयानपितृयाणगती, स्मार्ते स्मार्ते, स्मार्ते – स्मृतिविषयभूते अहरहस्स्मर्तव्ये स्मर्येते इत्यर्थः, * यत्र काले त्वनावृत्तिमावृत्तिं योगिनः * इत्यादिना *नैते सृतीपार्थ जानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन।। इत्यन्तेन। न मुमूर्षून् प्रति कालविशेषोपादानं स्मर्यते। आतिवाहिकगणस्य कालाभिमानिदेवताविशेषभूयस्त्वेन * यत्र काले * इत्युच्यते।।