21 निशाधिकरणम्

निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च। ॥4.2.18॥
विदुषो निशि मृतस्य ब्रह्मप्राप्तिरस्ति, नेतिसंशयः। *दिवा च सुक्लपक्षश्च उत्तरायणमेव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम्।। इति निशामणस्य गर्हितत्वेन अधोगतिहेतुत्वान्न ब्रह्मप्राप्तिस्संभतीति पूर्वः पक्षः। राद्धान्तस्तु– विद्यामाहात्म्यादुत्तरपूर्वायघयोरस्लेषविनाशश्रुतेरश्लिष्टविलष्टत्वात्, प्रारब्धस्यापि कर्मणः चरमदेहावधितिवाच्च, बन्धहेत्वभावान्निशि मृतस्यापि ब्रह्मप्राप्तिरस्येवेति। अविद्वद्विषया निसामरणनिन्दा।। सूत्रास्तु – निसामरणनिन्दया निशि मृतस्य न ब्रहमप्राप्तिरिति चेत्, तन्न,संबन्धस्य यावद्देहभावित्वात् अनारब्धकार्यकर्मसंन्धस्य विद्यया विनष्टत्वात् प्रारब्धकर्यकर्मसंबन्धस्यापि यावच्चरमदेहभावित्वात् बन्धहेत्वभावेन ब्रह्मप्राप्तिरस्त्येवेत्यर्थः। तदेतच्छ्रुतिश्च दर्शयति तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथसंपत्स्ये इति।।