रश्म्यनुसारी। ॥4.2.17॥
‘अथ यत्रैतदस्माच्छरीरादुक्रामत्यथैतैरेव रश्मिभिरूरध्वमाक्रमते’ इति विद्वान् रश्म्यनुसारी गच्छीतीति नियमस्संभवतीति, नेति संशयः। निशि मृतस्य विदुषः आदित्यरश्म्यनुसारासंभवादनियम इति पूर्वः पक्षः। वचनं पक्षप्राप्तमनुवदति। राद्धान्तस्तु – वचनस्य पक्षप्राप्त्यनुवादित्वे *अथैतेरेवेत्यवधारणविरोधः। नच निशि रश्मयो न सन्तीति, निश्यपि निदाघसमये ऊष्मोपलब्धेः सूक्ष्मास्सन्त्येवेति रश्म्यनुसार्येव गच्छति। हेमन्तेऽनुपलब्धिः दुर्दिन इव हिमाभिबावात्।।