तदोकोग्रज्वलनं तत्प्रकाशितद्वारः विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् ॥4.2.16॥
परमपुरुषाराधनभूतया विद्यया तदङ्गभूतगतिचिन्तनेन च प्रीतेन परमपुरुषेणानुगृहीतो जीवस्त्तप्रसादप्रकाशितद्वारतयैव मूर्धन्यया नाड्या गच्छतीति।। सूत्रार्थस्तु —हार्दपरमपुरुषाराधनरूपविद्यामार्थ्यात् तच्छेषगत्यनुस्मृतयोगाच्च प्रीतिहार्दानुगृहीतो भवति जीवः, ततः तदोकः जीवस्य स्थानं हृदयम्, अग्रज्वलनम्— प्रकाशिताग्रं भवतिः एवं परमपुरुषप्रकाशितद्वारः शताधिकया गच्छतिः * तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः* सर्वस्य चाहं हृदिसन्निविष्टः* इति हार्दः परमात्मा।।