अविभागो वचनात्। ॥4.2.15॥
सेयं परमात्मनि संपत्तिः किं प्राकृतप्रलयवत्कारणापत्तिरूपा, उत मनःप्रभृतिसंपत्तिवदविश्लेषमात्रमिति संशयः। परमात्मनः कारणत्वात्, तत्संपत्तिवचनाच्च कारणापत्तिरेवेति पूर्वःपक्षः। राद्धान्तस्तु – *वाङअमनसि संपद्यते * इति श्रुतस्यैव संपत्तिवचनस्य सर्वत्रानुषङ्गादत्रानुषक्तस्य चाभिधानवैरूप्यासंभवादत्राप्यविभागः – अविश्लेष एवोच्यते। सूत्रमपि व्याख्यातम्।।