तानि परे तथा ह्याह। ॥4.2.14॥
*प्राणस्तेजसीति तेजश्शब्दनिर्दिष्टानि भूतानि जीवपरिष्वक्तानि किं परस्यां देवतायां संपद्यन्ते, उत यथाकर्म यथाविद्यं च गच्छन्तीति संशयः। तदानीं सुखदुःखोपभोगाद्यभावेन परसंपत्तौ प्रयोजनाभावात् यथाकर्म यथाविद्यमिति पूर्वः पक्ष-। सर्वस्य परदेवताकार्यत्वेन तदात्मकत्वात् गन्तव्यस्थानमिदं *परस्यां देवतायाम् *इत्युच्यते। राद्धान्तस्तु — तानि परे – परस्मिन्ब्रह्मणि संपद्यन्ते। * तेजः परस्यां देवतायामिति ह्याह श्रुतिः। यथाश्रुति विश्रमस्थानत्वेन कार्यं परिकल्प्यमित्यर्थः। सूत्रं च व्याख्यातम्।।