16 आसृत्युपक्रमाधिकरणम्

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य। ॥4.2.7॥
इयमुत्क्रान्तिः किं विद्वदविदुषोस्समाना, उतविदुष एवेति संशयः। विदुषोऽत्रैवामृतत्वप्राप्तिश्रुतेरविदुष एवेति पूर्वः पक्षः। श्रूयते हि विदुषोऽत्रैव ब्रह्मप्राप्तिः।। इति। राद्धान्तस्तु – विदुषोऽर्चिरादिकयैव ब्रह्मप्राप्तिः, अर्चिरादिगत्युपक्रमत्प्रागियमुत्क्रान्तिस्समाना। गतिश्च मूर्धन्यनाड्या। *शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका, तयोर्ध्वमायन्मृतत्वमेति इति श्रुतेः। यदा सर्वे प्रमुच्यन्ते * इत्यनेन गतिश्रुत्यविरोधायाम-तत्वसाधनभूतोपासननिष्पत्तिरुच्यते, हृदि स्थिताः कामा यदा प्रमुच्यन्ते, तदैवोपासनारम्भान्मर्त्योऽमृतो भवतीति। अत्र – कामविमोकपूर्वकोपासने स्थितोऽर्चिरादिकया गत्या ब्रह्म समश्नुेत इत्यर्थः। सूत्रार्थस्तु – सृतिः – गतिः आगत्युपक्रमादुक्रान्तिर्विदुषोऽपि समाना, विदुषोऽर्चिरादिगतिश्रुतेः अथ सर्त्योऽमृतो भवति * इत्युच्यमानममृतत्वमनुपोष्य च अदग्ध्वैव शरीरेन्द्रियादिसंबन्धम्, उपासनारभ्यापरिकररूपमित्यर्थः।।

तदापीतेः संसारव्यपदेशात्। ॥4.2.8॥
तत् – अमृतत्वम्,उक्तप्रकारमेव। कुत-? आपीतेस्संराख्यव्यपदेशात् – अपीतिः – ब्रह्मप्राप्तिः, अर्चिरादिकया गत्या देशविशेषं" गत्वा यावद्ब्रह्म प्राप्यतेः तावत्संसारः – शरीरसंबन्धो हि व्यपदिश्यते।। गतिव्यपदेशादेव शरीरादुत्क्रान्तस्य कथं शरीरसंबन्ध इत्यत्राह –

सूक्ष्मं प्रमाणतश्च तथोपलब्धेः। ॥4.2.9॥
सूक्ष्मशरीरमनवर्तते, गतिव्यपदेशात्। न केवलं गतिव्यपदेशादेव, प्रमाणान्तरतश्च तथा सूक्ष्मशरीरवत्त्वस्योपलब्धेश्च। विदुषोऽर्चिरादिकया गत्या गच्छतशअचन्द्रमसा संवादोऽयमुपदिश्यते * तं प्रतिब्रूयात् * सत्यं ब्रूयात् इत्यादिना।।

नोपमर्देनातः। ॥4.2.10॥
अतः उक्ताद्धेतुकलापात्,* अथ मर्त्योऽमजतो भवतीति वचनं न देहसंबन्धोपमर्देनामृत्त्वं वदतिः अपि तूक्तमेवोपासनारम्भरूपं वदतीत्यर्थः।

अस्यैव चोपपत्तेरूष्मा। ॥4.2.11॥
अस्य – सूक्ष्मशरीरस्य विद्यमानत्वोपपत्तेश्च न देहसंबन्धोपमर्देन। उपलभ्यते ह्युत्क्रमणमाणस्य विदुषः क्वचिदूष्मा सूक्ष्मदेहगुणः, नचायं स्थूलदेहगुणः, अन्यत्रानुपलब्धेः। अतो विद्वान् सूक्ष्मशरीरेणोत्क्रामति।।

प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम् । ॥4.2.12॥
*स एतास्तेजोमात्राः इत्याभ्य इति तु कामयमानाः इत्यन्तेनाविदुषः उत्क्रान्तिप्रकारं लोकान्तरगमनं पुनरावृत्तिं चाभिधाय, अथाकामयमानः इत्यादिना * न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति इति विदुष उत्क्रान्तिप्रतिषेधादुक्तप्रकारो नोपपद्यत इति चेत्ः तन्न, शारीरत्प्राणानामविश्लेषोऽनेनोच्यते। तस्य अकामयमानस्य विदुषश्शरीरस्य, प्राणास्स्वस्मान्नोत्क्रामन्ति। देवयानेन गमनाय सहैव तिष्ठन्ति। अयमर्थः – स्पष्टो ह्येकेषां –माध्यन्दिनशाखिनां पाठे * योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात्प्राणा उत्क्रामन्ति इति।।

स्मर्यते च। ॥4.2.13॥
स्मर्यते च विदुषोऽपि मूर्धन्यनाड्योत्क्रान्तिः* ऊर्ध्वमेकस्थितस्तेषां यो भित्त्वा सूर्यमण्डलम्। ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम्। इति।।