भूतेषु तच्छ्रुतेः। ॥4.2.5॥
‘प्राणस्तेजसीति किं तेजोमात्रे प्राणस्संयुज्यते, उत भूतान्तरसंसृष्ट इति संशयः। तेजसीति वचनात्तेजोमात्र इति पूर्वपक्षः। पृथिवी मयः इत्यादिना सञ्चरततो जीवस्य सर्वभूतमत्वश्रुते, त्रिवृत्करणश्रुतिस्मृतिभ्याञ्च तेजस एकस्य कार्याक्षमत्वाद्भूतान्तरसंसृष्ट इति राद्धान्तः। सूत्रद्वयं व्याख्यातम्।।
नैकस्मिन् दर्शयतो हि। ॥4.2.6॥