सोऽध्यक्षे तदुपगमादिभ्यः। ॥4.2.4॥
सः प्राणः किं तेजसि संयुज्यते, उत जीव इति संशयः। * प्राणस्तेजसीति वचनात्तेजस्येवेति पूर्वः पक्षः। राद्धान्तस्तु – उत्क्रान्तौ प्राणस्य जीवोपगमादिश्रुतेः प्राणः करणाध्यक्षे जीवे संयुज्यते। एतदविरोधाय जीवे संयुज्य पश्चात्तेजस्संयोगं * प्राणस्तेजसीति वदति। श्रूयन्ते हि प्राणस्य जीवोपगमादयः * एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्तिि * तमुत्क्रामन्तं प्राणोऽनूक्रामति *कस्मिन्वा प्रतिष्ठिते प्रतिष्टास्यामि। इत्यादिषु।।