तन्मनः प्राण उत्तरात्। ॥4.2.3॥
‘मनः प्राणे इत्यत्र दिं प्राणशब्देनाप उच्यन्ते, उत प्राण एवेति संशयः। प्राणस्य मनःप्रकृतित्वाभावात्* अन्नमयं हि सोम्य मनः* इति मनसोऽन्नमयत्वश्रवणात्, अपां चान्नप्रकृतित्वेन, तत्संपत्तिरुपपद्यत इति प्राणशब्देनाप उच्यन्त इति पूर्वपक्षःआपोमयः प्राणः" इति ह्यन्नमयत्वाप्राणस्य प्राणशब्देनापो वक्तुं युज्यन्ते इति। राद्धान्तस्तु – * अन्नमयं हि सोम्य मनः आपोमय- प्राणः इति मनप्राणयोर्न तत्तत्प्रकृतित्वमुच्यतेः अपि तु तदाप्यायनम्, आहङ्कारिकत्वान्मनसः, प्राणस्य चाकाशप्रकृतित्वात्। अतः वाङ्मनसीतिवत् तदुत्तरात् * मनः प्राणे* इति शब्दात्, तत् सर्वेन्द्रियसंयुक्तं मनः प्राणे संयुज्यन्ते।।