12 वागधिकरणम्

वाङ्मनसि दर्शनाच्छब्दाच्च। ॥4.2.1॥
अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे इत्यादिकोत्क्रान्तिविषया आम्नायते। तत्र किं वागिन्द्रियं मनसि संपद्यते, उत वाग्वृत्तिमात्रमिति संशयः। वाचो मनःप्रकृतित्वाभावात् स्वरूपलयस्तत्र न संभवतीति वाग्वृत्तिमात्राभिप्रायमितिपूर्वपक्षः। राद्धान्तस्तु – अकारणे संपत्त्यभावस्य वाग्वृत्तावपि तुल्यदर्शनात् * वाङ्मनसीति वाक्यस्वरूपस्यैव संपत्तिः। शब्दाच्च स्वरूपमेव संपद्यते * वाङ्मनसि संपद्यते इति वाक्स्वरूपसंपत्तावेव हि शब्दःः न वृत्तिमात्रसंपत्तौ। अकारणे लयाभावात्संपत्तिशब्दस्संयोगाभिप्रायः। सूत्रं च व्याख्यातम्।।

अत एव सर्वाँण्यनु। ॥4.2.2॥
यतो वाचो मनसि संयोगमात्रमुच्यतेः न तु लयः अत एव इदानीं ‘सर्वाणीन्द्रियाणि वाचमनु मनसि संपद्यन्ते * इति वचनं * वाङ्मनसि संपद्यत इति वचनवदुपपन्नम्, * तस्मादुपशान्ततेजाः – पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः’ इति।।