भोगेन त्वितरे क्षपयित्वाऽथ सम्पद्यते। ॥4.1.19॥
भोगे नत्वितरे क्षपयित्वाऽथ सम्पद्यते ।।
इतरे- आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसान एव विशिष्यते, उत तच्छरीरावसाने शरीरान्तरावसाने वेत्यनियम इति संशयः ।
यावन्न विमोक्ष्ये अथ सम्पत्स्य इति सम्पत्तेश्शरीरविमोक्षविलम्बमात्रश्रुतेः तच्छरीरावसान इति पूर्वःपक्षः । राद्धान्तस्तु-
प्रारब्धफलयोः कर्मणोः भोगेनैव क्षपयितव्यत्वाभिप्रायेण यावन्न विमोक्ष्ये अथ सम्पत्स्य इत्युच्यते न शरीरमात्रम्; कर्मविषयौ हि
बन्धमौक्षौ । अतः प्रारब्धफले पुण्यपापे यावता शरीरेण समापनीये, तावता क्षपयित्वा अथ सम्पद्यत इत्यनियम एव । सूत्रं च
व्याख्यातम् ।।
।। इति श्री भगवद्रामानुजविरचिते श्रीवेदान्तदीपे चतुर्थस्याध्यायस्य प्रथमःपादः ।।4.1।।