10 अग्निहोत्राद्यधिकरणम्

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्। ॥4.1.16॥
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।।
अग्निहोत्राद्याश्रमधर्मः किं विदुषोऽनुष्ठेयः, उत नेति संशयः सुकृत-दुष्कृतयोरविश्लेषविनाशाभिधानादाश्रमधर्मस्यापि
सुकृतत्वसाम्येन कार्याश्लेषादननुष्ठेय इति पूर्वपक्षः । राद्धान्तस्तु- आश्रमधर्मस्य तु विद्योत्पत्तिरेव कार्यमिति
तत्कार्यायैवानुष्ठेयः । दृश्यते हि- तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तीत्यादिना विद्योत्पत्ति कार्यत्वम् ।
विद्या चाप्रयाणादहरहरभ्यासाधेयातिशयोत्पाद्यैव । सूत्रं च व्याख्यातम् ।।

अतोऽन्यापि ह्येकेषामुभयोः। ॥4.1.17॥
यद्यग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्था, पूर्वकृता च साधुकृत्या अनुभूतफला प्रारब्धफला च;
सुहृदस्साधुकृत्यामित्यस्य विषयः क इत्याशङ्क्याह-
अतोऽन्याऽपि ह्येकेषामुभयोः ।।
अतः- अग्निहोत्रादिसाधुकृत्यायाः अन्याऽपि विद्याधिगमात् पूर्वोत्तरयोः पुण्यकर्मणोरुभयोश्च कारीर्यादिका
वृष्ट्यन्नाद्यर्थतया विदुषाऽनुष्ठिता विद्योत्पत्तेः पूर्वंकृताऽनादिकालप्रवृत्ता च प्रबलकर्मान्तरप्रतिबद्धफला
साधुकृत्याऽस्ति हि । एत एकेषां शाखिनां सुहुदस्साधुकृत्यामिति वचनं तद्विषयम् । विद्ययाऽश्लेषविनाशश्रुतिश्च
तद्विषया ।।

यदेव विद्ययेति हि। ॥4.1.18॥
अनुष्ठितस्य कर्मणः प्रबलकर्मप्रतिबन्धसम्भवं पूर्वोक्तं स्मारयति-
यदेव विद्ययेति हि ।।
उक्तं ह्युद्गीथविद्यायाः क्रतोः कर्मान्तरप्रतिबन्धाभावः फलमिति । अतः प्रतिबद्धफलसाधुकृत्यस्यैव सुहृतस्सङ्क्रमणम् ।।