09 अनारब्धकार्याधिकरणम्

अनारब्धकार्ये एव तु पूर्वे तदवधेः। ॥4.1.15॥
अनारब्धकार्ये एव तु पूर्वे तदवधेः ।।
विद्योत्पत्तेः पूर्वकृतयोः पूण्यपापयोरविशेषेण विनाशः, उतानारब्धकार्ययोरेवेति संशयः । सर्वे पाप्मानः प्रदूयन्त इति
विशेषाभावादविशेषेणेति पूर्वःपक्षः । राद्धान्तस्तु- तस्य तावदेवचिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य
इत्युत्पन्नविद्यस्यापि
शरीरमोक्षावधित्वश्रुतेः, सर्वविनाशे शरीरस्थित्यनुपपत्तेश्चानारब्धकार्ययोरेव विनाशः । सूत्रं च व्याख्यातम् ।।