इतरस्याप्येवमसंश्लेषः पाते तु। ॥4.1.14॥
इतरस्याप्येवमसंश्लेषः पाते तु ।।
किमसंश्लेषविनाशौ पुण्यकर्मणोऽपि समानौ, उत नेति संशयः । पुण्यकर्मफलस्य सुखरूपत्वेन विदुषोऽनिष्टत्वाभावान्न
समानाविति पूर्वःपक्षः । राद्धान्तस्तु- मुमुक्षो मोक्षविरोधित्वेनानिष्टत्वसाम्यादश्लेषविनाशौ समानावेव ।
सूत्रार्थस्तु- इतरस्य पुण्यस्याप्यनिष्टफलत्वसाम्यादेवम्- अश्लेषविनाशौ; विद्यानुगुणस्य तु वृष्ट्यन्नारोग्यादिफलस्य
शरीरपातादूर्ध्वमनिष्टत्वादश्लेषः ।।