तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्। ॥4.1.13॥
तदधिगमउत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ।।
विदुष उत्तरपूर्वाघयोरश्लेषविनाशौ किं सम्भवतः, उत नेति संशयः । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपीति भोगादेव
कर्मक्षयश्रवणादश्लेषविनाशश्रुतिः कथंचिद्विद्यास्तुत्यर्थतया नेयेति पूर्वपक्षः । राद्धान्तस्तु-
द्वयोश्शास्त्रयोर्भिन्नविषयत्वेन विरोधाभावात्सम्भवत एव । कर्मणां फलजननसामर्थ्यं द्रढयति- नाभुक्षं क्षीयत इति । एवमेवं
विदि पापं कर्म न श्लिष्यते । एवं हास्य सर्वेपाप्मानः प्रदूयन्त इति च श्रुतिर्विद्यायास्तत्सामर्थ्यनिवारणशक्तिविषयेति ।
यथाऽप्तेजसोश्शीतजननतन्निवारणशक्तिविषये प्रमाणे न विरुध्येते इति । सूत्रमपि व्याख्यातम् ।।