06 आप्रयाणाधिकरणम्

आप्रयाणात् तत्रापि हि दृष्टम् । ॥4.1.12॥
आप्रयाणात्तत्रापि हि दृष्टम् ।।
तदिदमपवर्गसाधनमुपासनमेवस्मिन्नहनि कार्यम्, उत प्रत्यहमाप्रयाणादनुवर्तनीयमिति संशयः । एकस्मिन्नेवाहनि शास्त्रार्थस्य
कृतत्वात्तावतैव परिसमापनीयम् । यावदायुषमिति तु वचनं विधिशब्दस्याभावाद्विद्यायाः फलेनोपसंहारपरमिति पूर्वपक्षः ।
राद्धान्तस्तु- आप्रयाणादनुवर्तनीयम् । कुतः? तत्रापि हि दृष्टं सखल्वेवं वर्तयन्यादायुषं ब्रह्मलोकमभिसम्पद्य इति ।
अप्राप्तत्वेनानुवादत्वासम्भवाद्विधिरेवायमिति ।।