05 आसीनाधिकरणम्

आसीनस्सम्भवात्। ॥4.1.7॥
आसीनस्सम्भवात् ।।
किमिदं ब्रह्मोपासनमासीनः कुर्यात्, उतासीनश्शयास्तिष्ठन्गच्छन्वेत्यनियमेनेति संशयः । विशेषाश्रवणादनियमेनेति
पूर्वपक्षः । राद्धान्तस्तु- आसीनस्यैवैकाग्रतासम्भवादेकाग्रतामूलत्वाच्चोपासनस्य, आसीनः कुर्यात् । सूत्रमपि व्याख्यातम् ।।

ध्यानाच्च। ॥4.1.8॥
ध्यानाच्च ।।
निदिध्यासितव्य इत्युपासनस्य ध्यानरूपत्वाच्चैकाग्रचित्तताऽवश्यम्भाविनी । ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितं
तैतधारावदविच्छिन्नस्मृतिसन्ततिरूपम् ।।

अचलत्वं चापेक्ष्य। ॥4.1.9॥
अचलत्वं चापेक्ष्य ।।
निश्चलत्वं चापेक्ष्य ध्यानवाचो युक्तिः पृथिव्यादिषु दृश्यते । ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव
द्यौरित्यादिका । अतो ध्यायतः पृथिव्यादिवदचलत्वमासीनस्यैव सम्भवति ।।

स्मरन्ति च। ॥4.1.10॥
स्मरन्ति च ।।
स्मरन्ति चासीनस्यैव ध्यानम् । उपविश्यासने युञ्ज्यौद्योगमात्मविशुद्धय इति ।।

यत्रैकाग्रता तत्राविशेषात्। ॥4.1.11॥
यत्रैकाग्रता तत्राविशेषात् ।।
यस्मिन्देशे यस्मिंश्च काले मनस एकाग्रता, तत्र देशे काले चोपासनं कार्यम् । शर्करादिरहिते मनोनुकूले शुचौ देश
इत्येतदतिरिक्तविशेषाग्रहणात् । यथा देशकालयोरेकाग्रतायां विशेषः, न तथा स्थितिगत्यादौ; आसीनस्य तु
विशेषोऽस्तीत्यभिप्रायः ।।