04 आदित्यादिमत्यधिकरणम्

आदित्यादिमतयश्चाङ्ग उपपत्तेः। ॥4.1.6॥
आदित्यादिमतयश्चाङ्ग उपपत्तेः ।।
य एवासौ तपति तमुद्गीथमुपासीत्यादिषु कर्माङ्गाश्रयोपासनेषु किमुद्गीथादावादित्यदृष्टिः कार्या,
उतादित्यादावुद्गीथादिदृष्टिरिति संशयः । कर्मणः फलसाधनतयोत्कर्षादादित्यादेर्देवतात्वे
नतद्गुणत्वाच्चादित्यादावुद्गीथादिदृष्टिः कार्येति पूर्वपक्षः । राद्धान्तस्तु- कर्मणोऽपि
फलसाधनत्वमादित्यादिदेवताराधनद्वारेणेति आदित्यादेरेवोत्कर्षोपपत्तेरादित्यादिमतय एव कर्माङ्गोद्गीथादौ कार्याः
सूत्रं च व्याख्यातम् ।।