न प्रतीके न हि सः। ॥4.1.4॥
न प्रतीके नहि सः, ब्रह्मदृष्टिरुत्कर्षात् । मनो ब्रह्मेत्युपासीतेत्यादिषु प्रतीकोपासनेष्वप्यात्मत्वेनानुसन्धानं
कर्तव्यम्, उत नेति संशयः । मनो ब्रह्मेत्युपासीतेति ब्रह्मोपासनत्वाविशेषादात्मेत्येवानुसन्धानमिति पूर्वपक्षः ।
राद्धान्तस्तु- न प्रतीके आत्मत्वानुसन्धनं कार्यम् । कुतः? न हि मन आदिरूपासितुरात्मा । न च तत्र ब्रह्मोपास्यम्;
ब्रह्मदृष्ट्या मन आदिरूपास्यः । अपकृष्टे ह्युत्कृष्टदृष्टिरभ्युदयाय भवति, यथाभृत्यादौ राजदृष्टिः । सूत्रद्वयं व्याख्यातम्
।।
ब्रह्मदृष्टिरुत्कर्षात्। ॥4.1.5॥