आत्मेति तूपगच्छन्ति ग्राहयन्ति च। ॥4.1.3॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।।
किमुपास्यं ब्रह्मोपासितुरन्यत्वेनानुसन्धेयम्, उतात्मत्वेनेति संशयः । अधिकं तु भेदनिर्देशात्
अधिकोपदेशादित्यादिषूपासितुरुपास्यस्यार्थान्तरत्वेनौवोपपादनाद्यथावस्थितस्यैवोपास्यत्वाच्चान्यत्वेनोपास्यमिति
पूर्वपक्षः । राद्धान्तस्तु- त्वं वा अहमस्सि भगवो देवते अहं वै त्वमसि भगवो देवते इति पूर्वे उपासितार
उपास्यमात्मत्वेनोपगच्छन्ति । अत आत्मेत्येवोपास्यम् । तानुपासितॄन्प्रत्यर्थाऽन्तरभूतस्यापि ब्रह्मण उपासितुरात्मत्वं
ग्राहयन्ति शास्त्राणि । य आत्मनितिष्ठन्नात्मनोऽन्तरोयमात्मानवेदयस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त
आत्मान्तर्याम्यमृत इत्यारभ्योपासिता परमात्मनश्शरीरम्, परमात्माचोपासितुरात्मेति प्रतिपादनेन; तथा सर्वं खल्विदं ब्रह्म
तज्जलानिति, सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः … ऐतदात्म्यमिदं सर्वमिति च
तदायत्तस्वरूपस्थितिप्रवृत्तिता
प्रतिपादनेन च । एवमुपासितुस्स्वातमनोऽप्यात्मत्वाद्ब्रह्मणो
यथावस्थितस्वात्मशरीरकब्रह्मानुसन्धानेऽहमित्येवानुसन्धेयम् । यथा मनुष्योऽहमस्मीति स्वशरीरस्य स्वप्रकारतैकस्वभावतया
प्रकारिमि स्वात्मनि पर्यवसानम्, तथास्वात्मनोऽहं प्रत्ययोऽहंशब्दश्च न केवलस्वात्मविषयौ; परमात्मशरीरतया
तद्विशेषणत्वेनैव स्वात्मनोऽवस्थानात् । सूत्रमपि व्याख्यातम् ।।