आवृत्तिरसकृदुपदेशात्। ॥4.1.1॥
श्रीः
श्रीमते रामानुजाय नमः
श्रीवेदान्तदीपे चतुर्थाध्याये प्रथमःपादः
आवृत्तिरसकृदुपदेशात् ।।
ब्रह्मविदाप्नोति परम् । तमेवं विद्वानमृत इह भवतीत्यादिवेदान्तविहितं वेदनं किं सत्कृतमेव शास्त्रार्थः,
उतासकृदावृत्तमिति संशयः । सत्कृतमेवेति पूर्वःपक्षः, स यो ह वै परमंब्रह्म वेद ब्रह्मैव भवतीत्यादौ वेदनस्यैव
मुक्त्युपायत्वप्रतिपादनात् सकृत्कृतेऽपि वेदने शास्त्रार्थनिवृत्तेः, तस्यासकृदावृत्तौ प्रमाणाभावात् ।
राद्धान्तस्तु- यस्तद्वेद यत्सवेद स मयैतदुक्त इत्युपक्रम्य अनुम एतां भगवो देवतां शाधि यां देवतामुपास्स इत्युकस्मिन्वाक्ये
विद्युपास्योर्व्यतिकरेण प्रयोगदर्शनात्, समानार्थेषु ब्रह्मविदाप्नोति परम्, आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो
निदिध्यासितव्य इत्यादिषु ध्यानविद्योर्व्यतिकरदरशनाच्च ध्यानोपासनादिशब्दवाच्यमसकृदावृत्तं स्मृतिसन्तानरूपं
वेदनमेव शास्त्रार्थ इति निश्चीयते । सूत्रास्थस्तु- आवृत्तिरसकृत्- ब्रह्मप्राप्तिसाधनं वेदनमसकृदावृत्तमेव शास्त्रार्थः
। वेदनं ध्यानशब्दवाच्यमित्यर्थः । कुतः? उपदेशात्- ओमित्येव ध्यायदात्मानम्, निचाय्य तं मृत्तयुमुखात्प्रमुच्यते,
आत्मानमेवलोकमुपासीत, आत्मा वा अरे द्रष्टव्य इत्यादिना उपासनोपसंहारोपदेशात् । उपासनं चाविच्छिन्नस्मृतिसन्तानरूपमिति
पूर्वमेवोक्तम् ।।
लिङ्गाच्च। ॥4.1.2॥
लिङ्गाच्च ।।
लिङ्गं- स्मृतिः ।
स्मर्यते चायमर्थः मां ध्यायन्त उपासते ।
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।।
येत्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
तद्रूपप्रत्यये चैकासन्ततिश्चान्यनिस्पृहा ।
तद्ध्यानं प्रथमैष्षड्भिरङ्गैर्निष्पाद्यते तथेति ।।