एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः। ॥3.4.51॥
किं मुक्तिफलान्युपासनानि स्वसाधनभूतातिशयितपुण्यकर्मानन्तरमुत्पद्यन्ते, उत पूर्ववदनियम इति संशयः। मुक्तिफलोपासनसाधनभूतकर्मणां" सर्वकर्मभ्यो बलवत्तरत्वेन प्रतिबन्धाभावादनन्तरमेवोत्पद्यत इति पूर्वः पक्षः। तत्रापि ब्रह्मविदपचारस्य ततोऽपि बलवत्तरत्वेन प्रतिबन्धसंभवादनियम एवेति राद्धान्तः। सूत्रार्थस्तु- मुक्तिफलानामप्येमनियमः। कुतः? तदवस्थावधृतेः- प्रतिबन्धाभावे सति फलावधृतोः। द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति। इति मुक्तिफलाधिकरणम्।। इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे तृतीयस्याध्यायस्य चतुर्थः पादः" ।।समाप्तश्चाध्यायः।।