ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात्। ॥3.4.50॥
मोक्षव्यतिरिक्ताभ्युदयफलमुपासनं किं स्वसाधनभूतपुण्यकर्मानन्तरमेवोत्पद्यते, उतानन्तरमन्यदा वेतयनियम इति संशयः। साधननिर्वृत्तौ विलम्बहेत्वभावादनन्तरमेवेति पूर्वः पक्षः। राद्धान्तस्तु-अप्रस्तुतो- प्रबलकर्मान्तरप्रतिबन्धे सत्यनन्तरम्, प्रस्तुते तदुत्तरकारलमित्यनियमः। दृश्यते हि प्रबलकर्मान्तरेण फलप्रतिबन्धः *यदेव विद्यया करोति तदेव वीर्यवत्तरमिति उद्गीथोपासनस्य क्रतोः कर्मान्तरेण फलाप्रतिबन्धः" फलमिति, पृथग्धयप्रतिबन्धः फलम् इत्यभ्युपगमात्। सूत्रमपि व्याख्यातम्। ऐहिकम्- अभ्युदयफलमित्यर्थः।। इति ऐहिकाधिकरणम्।।