53 अनाविष्काराधिकरणम्

अनाविष्कुर्वन्नन्वयात््। ॥3.4.49॥
तस्माद्ब्रह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः* इत्यत्र किं बालस्य कर्म कामचारादिकं सर्वं विदुषोपादेयम्, उत विद्यामाहात्म्यानाविष्कार इति संशयः। *बाल्येन तिष्ठासेदित्यविशेषविधानात्कामचारादिकं सर्वमप्युपादेयमिति पूर्वः पक्षः; विदुषो विशेषविधानात्, विद्यामाहात्म्याच्च, निषेधश्रुतयो बाधिता भवेयुरिति। राद्धान्तस्तु- पाण्डित्यप्रयुक्तस्वमाहात्म्यानाविष्कार एव विद्यान्वययोग्यतयोपादेयः; इतरस्य कामचारादेः नाविरतो दुश्चरितात् इत्यादिशास्त्रैर्विद्योत्पत्तिविरोधित्वावगमात्। अतो यथा बालः स्वाभिजनाद्यनाविष्कुर्बन्वर्तते; तथा विद्वान्वर्तेतेत्येतदेव युक्तम्। सूत्रमपि व्याख्यातम्। इति अनाविष्काराधिकरणम्।।