52 सहकार्यन्तराधिकरणम्

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्। ॥3.4.46॥
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मिनिः* इत्यत्र मौनं विद्याङ्गतया विधीयते, उतानूद्यत इति संशयः। मौनस्य मननरूपत्वात् श्रोतव्यो मन्तव्यः इति श्व प्राप्तत्वेनानूद्यत इति पूर्वः पक्षः। राद्धान्तस्तु- मुनिशब्दस्य प्रकृष्टमननशीले प्रसिद्धेः, प्रकृष्टमननमुपास्यविषयाभ्यासरूपं विद्यानिष्पत्तये विधीयत इति। सूत्रार्थस्तु-तद्वतः-विद्यावतः, सहकार्यन्तरं-मौनं विधिः; विधीयत इति विधिरिति मौनं विधिरित्युक्तम्। विध्यादिवत्-अत्रापि विधीयत इति विधिः यज्ञदानप्रभृत्याश्रमधर्मः, आदिशब्दाच्छ्रवणमनने गृह्येते। आश्रमधर्मवच्छ्रवणमननवच्च पाण्डित्यबाल्ययोस्तृतीयमिदं सहकार्यन्तरं" मौनपूर्वं विधीयते; कुत इत्यत आह- पक्षेणेति। मुनिशब्दस्य प्रकृष्टमननयुक्ते पक्षेण- प्रसिद्धेरित्यर्थः।।

कृत्स्नभावात्तु गृहिणोपसंहारः। ॥3.4.47॥
सर्वाश्रमिणां विद्यावत्त्वेऽपि छान्दोग्ये स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते इति गृहस्थधर्मेणोपसंहारः सर्वाश्रमधर्मप्रदर्शनार्थः। कुतः? कृत्स्नभावात्-कृत्स्नेषु भावात्- कृत्स्नेष्वाश्रमिषु विद्यायास्सद्भावादित्यर्थः।।

मौनवदितरेषामप्युपदेशात्। ॥3.4.48॥
अथ मुनिः* इत्यस्मिन्वाक्ये अथ भिक्षाचर्यं चरति इति पारिव्राज्यैकान्तधर्मेणोपसंहारोऽपि सर्वाश्रमधर्मप्रदर्शनार्थः, भिक्षाचर्यमौनादिवदितरेणामाश्रमधर्माणां" यज्ञादीनामप्युपदेशात्।। इति सहकार्यन्तरविध्यधिकरणम्।।