स्वामिनः फलश्रुतेरित्यात्रेयः। ॥3.4.44॥
उद््गीथाद्युपासनं किं यजमानेनानुष्ठेयम्, उत ऋत्विजेति संशयः। *यदेव विद्यया करोति… तदेव वीर्यवत्तरमिति क्रतुवीर्यवत्तरत्वफलं" यजमानस्येति दहरोपासनादिवद्यजमानेनानुष्ठेयमिति पूर्वः पक्षः। कर्माङ्गाश्रयत्वादस्योपासनस्य कर्मणश्चार्त्विज्यत्वेन एतदपि ऋत्विजाऽनुष्ठेयं, गोदोहनदिवदिति राद्धान्तः। सूत्रार्थस्तु- स्वामिनः-यजमानस्योद्गीथाद्युपासने कर्तृत्वम्, कुतः? तस्यैव फलश्रुतेरित्यात्रेयो मन्यते।।
आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रीयते। ॥3.4.45॥
ऋत्वङ्गाश्रयत्वेन ऋत्वधिकृतस्यैवास्मिन्नुपासनेऽधिकारात् ऋतोश्चार्त्विज्यत्वेन एतदप्यार्त्विज्यमित्यौडुलोमिराचार्यो मन्यते, यजमानफलसाधनत्वेऽपि क्रतोस्तदनुष्ठानाय हि ऋत्विक्परिक्रियते। इति स्वाम्यधिकरणम्।।