तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः। ॥3.4.40॥
नैष्ठिकवैस्वानसपरिव्राजकानां स्वाश्रमेभ्यः प्रच्युतानामपि विद्याधिकारोऽस्ति, नेति संशयः। विधुरादिवज्जपादिभिरनुग्रहसंभवादस्त्येवाधिकार इति पूर्वः पक्षः। राद्धान्तस्तु-नैष्ठिकादीनां स्वाश्रमभ्रष्टानां प्रायश्चित्ताभावस्मरणाच्छिष्टबहिष्कृतत्वाच्च तेषामनधिकारः" इति। सूत्रार्थस्तु- तद्भूतस्य तु नातद्भावः- नैष्ठिकादिभूतस्यातथाभावो न संभवति; कुतः? तद्रूपाभावेभ्यः शास्त्रैः नियमात्, तद्रूपाभावाः" नैष्ठिकाद्याश्रमधर्माभावाः, तेभ्यो नियच्छन्ति हि शास्त्राणि। ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् इति नैष्ठिकस्य तत्रैव नियमः; अरण्यमियात्ततो न पुनरेयात् इति च वैखानसस्य; संन्यस्याग्निं न पुनरावर्तयेत् इति च परिव्राजकस्य। अत एव तेषामनाश्रमित्वेनावस्थानाभावाद्विद्याधिकारो न संभवति। जैमिनेरप्यविगीतोऽयम्।।
न चाधिकारिकमपि पतनानुमानात्तदयोगात्। ॥3.4.41॥
आधिकारिकम्- अधिकारलक्षमोक्तम् अवकीर्णपशुश्च तद्वत् इत्येतत्प्रायश्चित्तं नैष्ठिकस्य न संभवति। कुतः? पतनानुमानान्नैष्ठिकस्य तदयोगात्। तस्य हि पतनं स्मर्यते प्रायश्चित्ताभाववचनेन, *आरूढो नैष्ठिं धर्मं यस्तु प्रच्यवते द्विजः। प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा।। इति। अत उपकुर्वाणब्रह्मचारिविषयमाधिकारिकम्।।
उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् । ॥3.4.42॥
एके प्रायश्चित्तभावमपि मन्यन्ते, यत उपपूर्वम्- उपपातकमिदम्; अशनवत्-मध्वशनादिनिषेधतत्प्रायश्चित्तवद्भवतीत्यर्थः। अत उपकुर्वाणस्य ब्रह्मचारिणः उक्तमाधिकारिकमस्यापि भवतीति। तदुक्तं स्मृतिकारैः उत्तरेषां चैतदविरोधि इति। उपकुर्वाणे ब्रह्मचारिण्युक्तो धर्म उत्तरेषां चाश्रमिणां स्वाश्रमाविरोधी भवत्येवेत्यर्थः।।
बहिस्तूभयथाऽपि स्मृतेराचाराच्च। ॥3.4.43॥
उभयधापि-उपपातकत्वे महापातकत्वेऽपि नैष्ठिकात्प्रच्युतो बहिर्भूतः कर्माधिकारात्, प्रायश्चितं न पश्यामि इति स्मृतेः; आचाराच्च–वर्जयन्ति ह्येनं शिष्टा विद्योपदेशादौ। यद्यपि कल्मषनिबर्हणाय कैश्चित्प्रायश्चित्तमुच्यते; तथापि कर्माधिकारापादिनी शुद्धिस्तेषां न संभवतीत्यभिप्रायः।।