49 विधुराधिकरणम्

अन्तरा चापि तु तद्दृष्टेः। ॥3.4.36॥
विधुरादीनामनाश्रमिणां ब्रह्मविद्यायामधिकारोऽस्ति, नेति संशयः। आश्रमधर्मेतिकर्तव्यताकत्वाद्विद्यायाः तदभावात्तेषामनधिकार इति पूर्वः पक्षः। राद्धान्तस्तु- ऊर्ध्वरेतस्सिव रैक्वादिष्वनाश्रमिषु विद्यानिष्ठत्वदर्शनादाश्रमानियतैर्जपोपवासदानदिभिरेव तेषां विद्यानुग्रहो भवतीत्यस्त्येवाधिकारः। सूत्रार्थस्तु- तुशब्दात्पक्षो व्यावृत्तः। चशब्दोऽवधारणे। अन्तराऽपि- आश्रमानन्तरा वर्तमानानाम् अनाश्रमिणामप्यधिकारोऽस्त्येव। कुतः? तददृष्टेः- रैक्वादिषु विद्यानिष्ठत्वदृष्टेः।।

अपि स्मर्यते। ॥3.4.37॥
अपि च अनाश्रमिणामपि जपादिभिरेव विद्याग्रहः स्मर्यते जप्येनापि च संसिध्येद्ब्रह्मणो नात्र संशयः इत्यादिना।

विशेषानुग्रहश्च। ॥3.4.38॥
आश्रमानियतधर्मविशेषेण विद्यानुग्रहश्श्रूयते च तपसा ब्रह्मचर्येण श्रद्धया विद्यया चाऽऽत्मानमन्विच्छेत् इति।।

अतस्त्वितरज्ज्यायो लिङ्गाच्च। ॥3.4.39॥
अतः-अनाश्रमित्वादितरत्– आश्रमित्वं ज्यायः, धर्मभूयस्त्वात्; लिङ्गाच्च स्मृतेश्चेत्यर्थः। अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः" इति हि स्मर्यते। तस्मादनाश्रमित्वेन विद्यानिष्ठत्वमापद्विषयमित्यभिप्रायः।। इति विधुराधिकरणम्।।