विहितत्वाच्चाऽऽश्रमकर्मापि ॥3.4.32॥
किं यज्ञादयो विद्याङ्गभूताः केवलाश्रमस्याप्यङ्गभूताः, उत नेति संशयः । केवलाश्रमस्याप्यङ्गत्वे नित्यानित्यसंयोगरूपविरोधः प्रसज्यत इति नाङ्गभूताः केवलाश्रमस्येति पूर्वः पक्षः ।
राद्धान्तस्तु - यदैकेनैव विनियोगेनोभयाङ्गत्वमिष्यते; तदा नित्यानित्यसंयोगविरोधः । इह तु *यावज्जीवमग्निहोत्रं जुहुयात् तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन इति विनियोगपृथक्त्वेन विरोधः परिह्रियते; यथाऽग्निहोत्रादीनामेव कर्मणाम् । जीवनाधिकारकामनाधिकारयोरिवाधिकारभेदस्यास्फुटत्वात्तत्स्फुटीकरणाय पुनरिह चिन्त्यते ।
सूत्रार्थस्तु -*यावज्जीवमग्निहोत्रं जुहुयादित्यादिना केवलगृहस्थाश्रमिणो जीवननिमित्ततया विहितत्वादेव यज्ञादि केवलाश्रमकर्मापि ॥
सहकारित्वेन च ॥3.4.33॥
“तमेतं वेदानुवचनेन” इत्यादिना विद्यासाधनत्वेन विहितत्वाच्च विद्यासहकारित्वेन चानुष्ठेयं यज्ञादिकर्म । विनियोगपृथक्त्वेन विरोधः परिह्रियत इत्यभिप्रायः ॥ ३३ ॥
सर्वथाऽपि त एवोभयलिङ्गात् ॥3.4.34॥
सर्वथापि - उभयत्र विनियोगेऽपि त एव यज्ञादयः । कुतः? उभयलिङ्गात् - उभयत्र प्रत्यभिज्ञानाख्यलिङ्गात् ॥
अनभिभवं च दर्शयति ॥3.4.35॥
धर्मेण पापमपनुदति इत्यादिभिश्च यज्ञादिधर्मान्निर्दिश्य तैर्विद्यायाः अनभिभवं - पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं दर्शयति । अत उभयत्र विनियोगात्केवलाश्रमिणां मुमुक्षूणां चानुष्ठेया यज्ञादयः ॥
इति विहितत्वाधिकरणम् ॥