47 सर्वान्नानुमत्यधिकरणम्

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥3.4.28॥
वाजिनां छन्दोगानां च प्राणविद्यायां न ह वा एवंविदि किञ्चनानन्नं भवति इति सर्वान्नानुमतिस्सङ्कीर्त्यते । किं प्राणविदस्सर्वान्नानुमतिस्सर्वदा, उत प्राणात्ययापत्ताविति संशयः । अविशेषात्सर्वदेति पूर्वः पक्षः । अतिशयितशक्तेर्ब्रह्मविदोऽपि उच्छिष्टपरिग्रहणभक्षणयोः प्राणात्ययापत्तावेव दर्शनादल्पशक्तेः प्राणविदः किं पुनरिति प्राणात्ययापत्तावेवेति राद्धान्तः ।
सूत्रार्थस्तु - चशब्दोऽवधारणे; प्राणविदस्सर्वान्नानुमतिः । प्राणात्यय एव; कुतः? तद्दर्शनात् अतिशयितशक्तेर्ब्रह्मविदः प्राणात्यय एव सर्वान्नानुमतिदर्शनात् ॥

अबाधाच्च ॥3.4.29॥
“आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः” इत्याहारशुद्धिविधेरबाधाच्च प्राणात्यय एव ॥

अपि स्मर्यते ॥3.4.30॥
प्राणसंशयमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ इति प्राणसंशय एव सर्वान्नानुमतिः स्मर्यते च ॥

शब्दश्चातोऽकामकारे ॥3.4.31॥
यतस्सर्वान्नानुमतिः प्राणात्यये; अतोऽकामकारे शब्दश्च कामकारस्य प्रतिषेधकशब्दश्चोपपद्यत इत्यर्थः ॥ अस्ति हि कठानां कामकारप्रतिषेधकश्शब्दः तस्माद्ब्राह्मणस्सुरां न पिबति पाप्मना नोत्सृजा इति । पाप्मना संस्पृष्टो न भवानीति मत्वा सुरां न पिबतीत्यर्थः ।
इति सर्वान्नानुमत्यधिकरणम् ॥