शमदमाद्युपेतस्स्यात् तथाऽपि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ॥3.4.27॥
किं, विद्यानिर्वृत्तये गृहस्थैश्शमदमादय उपादेयाः, उत नेति संशयः । गृहस्थानामान्तरबाह्यकरणव्यापाररूपकर्माङ्गकत्वाद्विद्यायाः, तद्विपरीतरूपशमदमाद्युपादानासामर्थ्यादूर्ध्वरेतस्सु कर्मरहितेषु शमादिविनियोगो भविष्यति; यथा यज्ञादिविनियोगः कर्मवत्सु गृहस्थेषु । तस्मादनुपादेयाश्शमादय इति पूर्वः पक्षः । राद्धान्तस्तु - *तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत् *इति सामान्येन विद्याङ्गतया विनियोगात् गृहस्थैरप्युपादेयाः । न च कर्मवतां तेषां शमाद्युपादानासामर्थ्यम्; भिन्नविषयत्वाच्छमादेः । विहितेषु हि कर्मसु करणव्यापारः; अविहितेषु प्रयोजनशून्येषु च शमदमादयः । अतश्शमादिविनियोगो यज्ञादिविनियोगवन्न सङ्कोचमर्हतीति । सूत्रार्थस्तु - यद्यपि गृहस्थो यज्ञादिकर्मसु विनियुक्तः, तथापि तु शमदमाद्युपेतस्स्यात्; कुतः? शान्तो दान्तः इत्यादिना तद्विधेः तदङ्गतया - विद्याङ्गतया विद्यानिष्पत्तये तेषामवश्यानुष्ठेयत्वाच्च । एकाग्रतानिष्पाद्यत्वाच्छमदमादिभिरेव विद्यानिष्पत्तिरित्यर्थः । यज्ञादिकर्माण्यपि पापनिबर्हणद्वारेणैकाग्रताम् आपादयन्तीत्यभिप्रायः ॥
इति शमदमाद्यधिकरणम् ॥