45 सर्वापेक्षाधिकरणम्

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥3.4.26॥
कर्मवत्सु गृहस्थेषु किं यज्ञादिकर्मापेक्षा विद्या, उत तत्रापि केवलैवेति संशयः । ऊर्ध्वरेतस्सु यज्ञाद्यनपेक्षैवामृतत्वं साधयति चेत्; कर्मनिरपेक्षाया विद्याया एव साधनत्वमभ्युपगमनीयम् । तथा सति गृहस्थेष्वपि तन्निरपेक्षैव साधयितुं समर्थेति पूर्वः पक्षः । न हि स्वर्गादिसाधनभूतमग्निहोत्रादिकर्म पुरुषभेदेन नानाविधाङ्गकं दृष्टम् । *विविदिषन्तीति शब्दोऽपि वेदनेच्छायां कर्माणि विनियुङ्क्ते, न विद्यायाम् । राद्धान्तस्तु - कर्मवत्सु गृहस्थेषु यज्ञादिसर्वकर्मापेक्षा विद्या; कुतः? यज्ञादिश्रुतेः - तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन इति हि यज्ञादयो विद्याङ्गत्वेन विनियुज्यन्ते । अतो गृहस्थेषु कर्मापेक्षा विद्या । इच्छाया इष्यमाणप्रधानत्वात् विविदिषन्तीतीष्यमाणं ज्ञानमेवेत्यवगम्यते । यथा गमनसाधनभूतोऽश्वः स्वपरिकरबन्धरूपपरिकर्मापेक्षः; एवं मोक्षसाधनभूता विद्यापि नित्यनैमित्तिकपरिकर्मापेक्षा । ऊर्ध्वरेतस्सु च स्वाश्रमविहितं कर्मैव परिकर्म भवतीति तेष्वपि विद्यासंबन्धश्शास्त्रादवगम्यते । शास्त्रैकसमधिगम्ये हि यथाशास्त्रमभ्युपगमनीयम् । सूत्रमपि व्याख्यातम् ॥ इति सर्वापेक्षाधिकरणम् ॥