44 अग्नीन्धनाद्यधिकरणम्

अत एव चाग्नीन्धनाद्यनपेक्षा ॥3.4.25॥
ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्या संभवति, नेति संशयः । यज्ञाद्यभावात्तेषां तदङ्गिका विद्या न संभवतीति पूर्वः पक्षः । राद्धान्तस्तु - *यदिच्छन्तो ब्रह्मचर्यं चरन्ति एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति इत्यादिश्रुतेः तेषां विद्यावत्त्वावगमात्तेष्वग्निहोत्राद्यनपेक्षा विद्येति निश्चीयते । सूत्रार्थस्तु - अत एव - विद्यावत्त्वश्रुतेरेव, आधानाद्यनपेक्षा तेषु विद्या । अग्नीन्धनं हि अग्न्याधानम् ।