पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥3.4.23॥
“प्रतर्दनो ह वै दैवोदासिः” इत्यादयो वेदान्तेष्वाख्यानविशेषाः किं पारिप्लवप्रयोगार्थाः, उत तत्रतत्र विद्याविशेषप्रतिपादनार्थाः इति संशयः । *आख्यानानि शंसन्तीति पारिप्लवे विनियोगात्तदर्थाः इति पूर्वः पक्षः । राद्धान्तस्तु - *आख्यानानि शंसन्तीत्युक्त्वा मनुर्वैवस्वतो राजा इति मन्वाद्याख्याने विनियोगस्य विशेषितत्वात्, तं मामायुरमृतमित्युपास्स्व आत्मा वा अरे द्रष्टव्यः इत्यादिविधिनैकवाक्यत्वाच्च, सोऽरोदीत् इत्यादिवद्विद्याविध्यर्था एव । सूत्रद्वयमपि व्याख्यातम् ॥
तथा चैकवाक्योपबन्धात् ॥3.4.24॥
“प्रतर्दनो ह वै दैवोदासिः” इत्यादयो वेदान्तेष्वाख्यानविशेषाः किं पारिप्लवप्रयोगार्थाः, उत तत्रतत्र विद्याविशेषप्रतिपादनार्थाः इति संशयः । *आख्यानानि शंसन्तीति पारिप्लवे विनियोगात्तदर्थाः इति पूर्वः पक्षः । राद्धान्तस्तु - *आख्यानानि शंसन्तीत्युक्त्वा मनुर्वैवस्वतो राजा इति मन्वाद्याख्याने विनियोगस्य विशेषितत्वात्, तं मामायुरमृतमित्युपास्स्व आत्मा वा अरे द्रष्टव्यः इत्यादिविधिनैकवाक्यत्वाच्च, सोऽरोदीत् इत्यादिवद्विद्याविध्यर्था एव । सूत्रद्वयमपि व्याख्यातम् ॥ इति पारिप्लवार्थाधिकरणम् ॥