42 स्तुतिमात्राधिकरणम्

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥3.4.21॥
“ओमित्येतदक्षरमुद्गीथमुपासीत”, “स एष रसानां रसतमः परमः परार्थ्योऽष्टमो यदुद्गीथः* इत्येतज्जातीयके किं कर्माङ्गाश्रयाणां दृष्टिविशेषाणां विधिरास्थेयः, उतोद्गीथादिस्तुतिमात्रमिति संशयः । विधित्वे सिद्धे हि गोदोहनादिवद्भवति; विधित्वमेव न संभवतीति पूर्वः पक्षः । इयमेव जुहूस्सुवर्गो लोक आहवनीयः इतिवत् कर्माङ्गभूतोद्गीथादिसंबन्धितयोपादानाद्रसतमत्वादेः तत्स्तुतिमात्रत्वमेव; न रसतमत्वादिदृष्टिविधिः । राद्धान्तस्तु - जुह्वादिविधिवदुद्गीथादिविधेरत्रासन्निधानात्, रसतमत्वादेरप्राप्तत्वाच्च, उपासीतेति विधिप्रत्ययेन च, न स्तुतिमात्रम्, तद्दृष्टिविधिरेव । सूत्रद्वयमपि व्याख्यातम् ॥
इति स्तुतिमात्राधिकरणम् ॥