41 पुरुषार्थाधिकरणम्

॥अथ तृतीयाध्याये चतुर्थः पादः ॥
पुरुषार्थोऽतश्शब्दादिति बादरायणः ॥3.4.1॥
किं विद्यातः पुरुषार्थः, उत कर्मण इति संशयः । कर्मण इति पूर्वः पक्षः; कर्माङ्गत्वाद्विद्यायाः, कर्मसु कर्तृभूतप्रत्यगात्मनो याथात्म्यप्रतिपादनपराणि वेदान्तवाक्यानि । विद्यायाः कर्माङ्गत्वं च *यदेव विद्यया करोति…. तदेव वीर्यवत्तरमिति श्रुत्यैवावगम्यते । न च प्रकृतोद्गीथोपासनविषयत्वमस्य वक्तुं शक्यते, *यदेव विद्यया करोतीति श्रुत्यैव सर्वकर्मसु विद्याया विनियुक्तत्वात् । श्रुतिश्च प्रकरणाद्बलीयसी । विद्यायाः कर्माङ्गत्वं कथमित्यपेक्षायां *तत्त्वमसि *अयमात्मा ब्रह्मेति सामानाधिकरण्येन कर्माङ्गभूतकर्तृयाथात्म्यानुसन्धानद्वारेण विद्यायाः कर्माङ्गत्वमित्यवगम्यते । अतः कर्तृसंस्काररूपत्वाद्ब्रह्मविद्यायाः कर्मण एव पुरुषार्थः । तत्रतत्र फलश्रुतिरर्थवादस्स्यात् । विद्यायाः कर्माङ्गत्वे भूयांसि लिङ्गानि च दृश्यन्ते सर्ववेदान्तेषु ।
राद्धान्तस्तु - कर्मसु कर्तुः प्रत्यगात्मनोऽर्थान्तरभूतस्य स्वसङ्कल्पकृतजगदुदयविभवलयलीलस्य निखिलहेयप्रत्यनीककल्याणैकतानानन्तज्ञानानन्दैकस्वरूपस्य सर्वेश्वरस्य सत्यसङ्कल्पस्य करणाधिपरूपप्रत्यगात्माधिपस्य वेद्यस्य वेदनरूपाया विद्यायाः *ब्रह्मविदाप्नोति परमित्यादिषु ब्रह्मप्राप्तिरूपफलोपदेशात् विद्यात एव फलम् । *यदेव विद्यया करोतीति श्रुतिः प्रसिद्धवन्निर्देशात्, प्रसिद्धिश्च प्रकृतोद्गीथोपासनस्यैवेति, प्रस्तुतोद्गीथोपासनविशेषनिष्ठा । *तत्त्वमसीति सामानाधिकरण्यं च तच्छब्दनिर्दिष्टस्य स्वसङ्कल्पकृतजगज्जन्मस्थितिध्वंसादिकस्य परस्य ब्रह्मणो न जीवस्वरूपत्वपरम्; अपि तु जगत्कारणस्य ब्रह्मणो जीवशरीरकतया जीवस्यात्मत्वपरमिति *अधिकं तु भेदनिर्देशादित्यादिषूक्तम् । *य आत्मनि तिष्ठन् … यस्यात्मा शरीरमिति च प्रत्यगात्मन आत्मत्वं परस्य ब्रह्मणः श्रुत्यन्तरे व्यक्तम् ।
सूत्रार्थस्तु - पुरुषार्थोऽतः - विद्यातः; कुतः? *ब्रह्मविदाप्नोति परमित्यादिशब्दात् ॥

शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥3.4.2॥
‘तत्त्वमसि’ इत्यादिसामानाधिकरण्येन ब्रह्मणः कर्मसु कर्तृस्वरूपत्वावगमाद्विद्यायाः कर्तृसंस्कारद्वारेण कर्मशेषत्वात्तत्र पुरुषार्थवादोऽर्थवादमात्रम्, यथा अन्येषु द्रव्यसंस्कारादिष्विति जैमिनिराचार्यो मन्यते ॥२॥

आचारदर्शनात् ॥3.4.3॥
इतश्च विद्या कर्माङ्गम्; ब्रह्मविदामाचारो हि कर्मप्रधानो दृश्यते । यथाऽश्वपतिः केकयो ब्रह्मविदग्रेसरः यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि इत्याह । “कर्मणैव हि संसिद्धिमास्थिता जनकादयः” इति च स्मर्यते ॥

लिङ्गमिदम्; प्राप्तिरुच्यतामित्यत्राह -
तच्छ्रुतेः ॥3.4.4॥
यदेव विद्यया करोतीत्यादिकायाश्श्रुतेर्विद्यायाः कर्माङ्गत्वमवगम्यते । नच दुर्बलेन प्रकरणेन श्रुतिर्विद्याविशेषोद्गीथविषयोपासने व्यवस्थाप्यते ॥

समन्वारम्भणात् ॥3.4.5॥
“तं विद्याकर्मणी समन्वारभेते” इति विद्याकर्मणोरेकस्मिन्पुरुषे साहित्यं च विद्यायाः कर्माङ्गत्वे हि भवति ।

तद्वतो विधानात् ॥3.4.6॥
विद्यावतः कर्मविधानाच्च विद्या कर्माङ्गम् । आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे इत्यादिनाऽध्ययनवतः कर्माणि विदधदर्थावबोधपर्यन्तत्वादध्ययनस्य विद्यावत एव कर्माणि विदधातीत्यवगम्यते ॥

नियमात् ॥3.4.7॥
“कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः” इत्यात्मविदामायुषः कर्मसु नियमदर्शनाच्च कर्मण एव पुरुषार्थः; न विद्यात इत्यवगम्यते । अतश्च विद्या कर्माङ्गम् ।

अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥3.4.8॥
तुशब्दात्पक्षो व्यावृत्तः । बादरायणस्यैवं - विद्यातः फलमिति मतम्; कुतः? अधिकोपदेशात् - कर्मसु कर्तुः प्रत्यगात्मनोऽधिकस्य - अर्थान्तरभूतस्य वेद्यस्य वेदनभूतविद्यायाः फलसाधनत्वोपदेशात् । तद्दर्शनात् - दृश्यते हि वेदान्तवाक्येऽधिकविषयत्वं विद्यायाः । एवमेव हि *तदैक्षत बहु स्यां प्रजायेयेति *सोऽकामयत बहु स्यां प्रजायेयेत्यादिषु बहुभवनसङ्कल्पपूर्वकसृष्ट्यादेः कर्तुस्सर्वेश्वरस्य करणाधिपाधिपस्यानवधिकातिशयज्ञानानन्दैकस्वरूपस्य निखिलहेयप्रत्यनीकस्य वेद्यस्य विद्या ब्रह्मप्राप्तिफलाय विधीयते ॥

तुल्यं तु दर्शनम् ॥3.4.9॥
विद्यायाः प्रधानत्वेऽपि ब्रह्मविदामाचारदर्शनं तुल्यम् - कर्मणामनाचारदर्शनमप्यस्तीत्यर्थः, ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे इत्यादौ । कर्मानुष्ठानदर्शनं तु फलाभिसन्धिरहितस्य कर्मणो विद्याङ्गत्वात्; त्यागस्तु फलाभिसन्धियुक्तस्य विद्याविरोधित्वादित्यभिप्रायः ॥

असार्वत्रिकी ॥3.4.10॥
यदेव विद्यया करोतीति श्रुतिः सर्वविद्यायाः कर्माङ्गत्वं विदधातीत्येतदसङ्गतम्; अत्र विद्याशब्दाभिहिता तु न सार्वत्रिकी अपि तूद्गीथविद्या । यत्करोति, तद्विद्ययेति नैवं पदान्वयः; अपि तु यदेव विद्यया करोति, तदेव वीर्यवत्तरमिति । विद्यया क्रियमाणस्यान्यतोऽवगतस्य वीर्यवत्तरत्वं प्रति साधनभावोऽवगम्यते, यदेवेति प्रसिद्धवन्निर्देशात् । अन्यतोऽवगतिर्हि *उद्गीथमुपासीतेति सन्निहितोद्गीथविद्यायाः ॥

विभागः शतवत् ॥3.4.11॥
“तं विद्याकर्मणी समन्वारभेते” इत्यत्र विद्या च स्वस्मै फलाय, कर्म च स्वस्मै फलायान्वारभत इति विभागो द्रष्टव्यः, यतो विद्याकर्मणोर्भिन्नफलत्वमुक्तम् । शतवत् - यथा क्षेत्ररत्नविक्रयिणं शतद्वयमन्वेतीत्युक्ते, क्षेत्रार्थं शतम्, रत्नार्थं शतमिति विभागोऽवगम्यते; तद्वत् ॥

अध्ययनमात्रवतः ॥3.4.12॥
वेदमधीत्येत्यध्ययनमात्रवत एव कर्मविधानात् अनेन विद्याया न कर्माङ्गत्वमवगतम् । अध्ययनविधिर्ह्याधानवन्नियमवदक्षरराशिग्रहणमात्रे पर्यवस्यति; गृहीतस्य स्वाध्यायस्य फलवदर्थावबोधित्वदर्शनात्तन्निर्णयफलमीमांसाश्रवणे अधीतवेदः पुरुषस्स्वयमेव प्रवर्तते । अर्थावबोधपर्यन्तत्वेऽप्यर्थज्ञानादर्थान्तरभूता स्मृतिप्रत्ययावृत्तिरूपा, विद्यात्, उपासीतेति शास्त्रविहिता विद्या न कर्माङ्गम् ॥

नाविशेषात् ॥3.4.13॥
“कुर्वन्नेवेह कर्माणि” इति ब्रह्मविदामायुषः कर्मणि नियमो दृश्यत इत्येतन्न संभवति, अविशेषात् - विदुष एवेति विशेषाभावात्किमित्यविदुषः न स्यात्? विदुषस्त्वाप्रयाणादुपासनानुवृत्तिदर्शनादर्थस्वभावात् विदुष एवेत्यभिप्रायः ॥

स्तुतयेऽनुमतिर्वा ॥3.4.14॥
वाशब्दोऽवधारणे । ईशावास्यमिदं सर्वम् इति विद्याप्रकरणाद्विद्यास्तुतये कर्मानुमतिरेव । विद्यामाहात्म्यात्सर्वदा कर्माणि कुर्वन्नपि तैर्न लिप्यत इति हि स्तुता भवति विद्या । वाक्यशेषे च न कर्म लिप्यते नरे इति श्रूयते ॥

कामकारेण चैके ॥3.4.15॥
एके शाखिनः कामकारेण च विद्यानिष्ठस्य गार्हस्थ्यत्यागमधीयते । किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः इति गार्हस्थ्यकर्मत्यागं ब्रुवद्वाक्यं विद्या प्रधानमिति दर्शयति ॥

उपमर्दं च ॥3.4.16॥
विद्यया सर्वकर्मोपमर्दं चाधीयते क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति; तद्विद्यायाः कर्माङ्गत्वे न संगच्छते ॥

ऊर्ध्वरेतस्सु च शब्दे हि ॥3.4.17॥
ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादर्शनात् तेषु चाग्निहोत्रादिकर्माभावान्न विद्या कर्माङ्गम् । ते चात्राश्रमास्सन्त्येव; यतो वैदिके शब्दे तेऽपि दृश्यन्ते त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानम् इति, *ये चेमेऽरण्ये श्रद्धा तप इत्युपासते एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति इत्यादौ । *यावज्जीवमग्निहोत्रमित्यादिका तु श्रुतिरविरक्तविषया ॥

परामर्शं जैमिनिरचोदनाच्चापवदति हि ॥3.4.18॥
“त्रयो धर्मस्कन्धाः” इत्यादिषु तेषामाश्रमाणामचोदनात् - अविधानात् उपासनास्तुत्यर्थं परामर्शमनुवादं जैमिनिराचार्यो मन्यते । अपि च अपवदति हि श्रुतिराश्रमान्तरम् ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ इत्यादिका । अतस्ते न सन्त्येव ॥१८॥

अनुष्ठेयं बादरायणस्साम्यश्रुतेः ॥3.4.19॥
गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयं भगवान् बादरायणो मन्यते; कुतः? तस्यापि तत्साम्यश्रुतेः - त्रयो धर्मस्कन्धाः इत्येवमादौ हि सर्वेषामाश्रमाणामेकरूपं सङ्कीर्तनम् ॥

विधिर्वा धारणवत् ॥3.4.20॥
वाशब्दोऽवधारणे; सर्वेषामाश्रमाणां विधिरेवायम् । धारणवत् यथा *अधस्तात्समिधं धारयन्ननुद्रवेत् उपरि हि देवेभ्यो धारयति इत्यनुवादसरूपेऽप्युपरिधारणस्याप्राप्तत्वेन विधिराश्रीयते; एवमिहाश्रमाणामपि । अतः ऊर्ध्वरेतस्स्वपि विद्यादर्शनाद्विद्यातः पुरुषार्थ इति ॥
इति पुरुषार्थाधिकरणम् ॥