फलमत उपपत्तेः ॥3.2.37॥
किं वेदोदितं यागदानहोमादिकमुपासनाख्यं च * यजेत * उपासीतेति कामिनो मुमुक्षोश्च कर्तव्यतया श्रूयमाणं कर्मैवापूर्वद्वारेण भोगापवर्गरूपफलदम्, उत तत्तदाराधनैः प्रीतः परमपुरुष एव फलद इति संशयः । कर्मैवेति पूर्वः पक्षः । लोके मर्दनादेः कृष्यादेश्च कर्मण एव साक्षात्परम्परया वा फलप्रदत्वदर्शनात् । वेदे च * यजेत स्वर्गकामः" * आत्मानमेव लोकमुपासीत * इति कामिनो मुमुक्षोश्च कर्तव्यतया श्रूयमाणं कर्म तत्तत्फलसाधनतयाऽवगतं क्षणिकमप्यपूर्वद्वारेण भोगापवर्गरूपसर्वफलप्रदम् । राद्धान्तस्तु - कर्तव्यतयाऽवगतस्य यागादेरुपासनस्य च * यज देवपूजायामित्यादिनाऽवगतधात्वर्थस्वाभाव्यात्, * वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति * इति वाक्यशेषाच्च, * इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः, तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः * स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हि तान् ॥* अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च * स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः * तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् * इत्यादिश्रुतिस्मृतिभ्यश्च, परमपुरुष एव कर्मभिरुपासनेन चाराधितो भोगापवर्गरूपफलप्रदः । लोके च कृष्यादिकर्मभिस्सस्यादिकमुत्पाद्य, तेन भृत्यद्वारेण साक्षाद्वा राजानमभ्यर्च्य, तत एवापेक्षितानि लभन्ते; अतः परमपुरुष एव फलप्रदः ॥
सूत्रार्थस्तु - फलमत उपपत्तेः । अतः - परस्माद्ब्रह्मण एव कर्मभिरुपासनेन चाराधितात् भोगापवर्गरूपफलम् । कुतः? उपपत्तेः - कर्म हि क्षणध्वंसि न कालान्तरभाविफलायालम् ; स हि सर्वज्ञस्सर्वशक्तिः परमकारुणिको महोदारः अनादिरनन्तश्च सर्वेश्वरः स्वाराधनरूपेण कर्मणा आराधितः फलप्रद इत्युपपद्यते ॥
श्रुतत्वाच्च ॥3.2.38॥
“स वा एष महानज आत्मा अन्नादो वसुदानः”, “एष ह्येवानन्दयाति” इति भोगापवर्गरूपं फलमयमेव ददातीति हि श्रूयते ॥
धर्मं जैमिनिरत एव ॥3.2.39॥
यागादिकमुपासनात्मकं च धर्ममेव फलप्रदं जैमिनिराचार्यो मन्यते; अत एव - उपपत्तेश्श्रुतत्वाच्चेत्यर्थः । लोके कृष्यादेर्मर्दनादेश्च कर्मण एव साक्षात्परम्परया वा फलदायित्वदर्शनात् वेदेऽपि तथैव युक्तमित्युपपत्तिः । उपपद्यते चापूर्वद्वारेण साधनत्वम् । * यजेत स्वर्गकामः * ब्रह्मविदाप्नोति परमिति कामिनः कर्तव्यतया कर्मविधानान्यथानुपपत्त्या कर्मैवापूर्वद्वारेण फलसाधनमित्यवगम्यते ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥3.2.40॥
तुशब्दः पक्षव्यावृत्त्यर्थः । पूर्वोक्तं परमपुरुषस्यैव फलप्रदत्वं भगवान् बादरायणो मन्यते । कुतः? हेतुव्यपदेशात् - ‘वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति’ इति वाय्वाद्यात्मना अवस्थितस्य परमपुरुषस्यैव फलप्रदत्वव्यपदेशात् । ‘यो वायौ तिष्ठन्’ इति च वाय्वाद्यात्मना स एव व्यवस्थितः श्रूयते ‘तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः’ इति च । तत्परित्यागेनापूर्वस्य फलसाधनत्वकल्पने श्रुतहानमश्रुतकल्पनं च । विध्यपेक्षितफलसाधनत्वप्रकारे वाक्यशेषेणावगते सति न फलसाधनत्वप्रकारकल्पनं न्याय्यम्, यथैव हि रात्रिसत्रादिष्वधिकारी न कल्प्य (धिकारकल्पनम्) इत्यर्थः ॥ ४० ॥
इति फलाधिकरणम् ॥ ८॥
इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे तृतीयस्याध्यायस्य द्वितीयः पादः ॥२॥