परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥3.2.30॥
यतो वा इमानीत्यादिना जगज्जन्मादिकारणतया निर्दिष्टात्परस्माद्ब्रह्मणोऽपि परं तत्त्वं किञ्चिदस्ति, नेति संशयः । इतोऽपि परमस्तीति पूर्वः पक्षः । “अथ य आत्मा स सेतुः * इत्यस्य सेतुत्वव्यपदेशात् * एतं सेतुं तीर्त्वा* इति अस्य तरितव्यत्वोपदेशाच्च अतः अन्यदप्यस्तीति गम्यते । * चतुष्पाद्ब्रह्म * षोडशकलम् * इति परिमितत्वव्यपदेशाच्चापरिमितमन्यदस्तीति प्रतीयते । * अमृतस्यैष सेतुरिति प्रापकत्वश्रुतेश्चानेन प्राप्यमन्यदस्तीति प्राप्यप्रापकरूपसंबन्धात्प्रतीयते । तथा * तेनेदं पूर्णं पुरुषेण सर्वम् * ततो यदुत्तरतरम् * इति पुरुषशब्दनिर्दिष्टाद्ब्रह्मण उत्तरतरत्वेन भेदव्यपदेशाच्चान्यत्परमस्ति ॥
राद्धान्तस्तु - * न ह्येतस्मादिति नेत्यन्यत्परमस्तीति नेति निर्दिष्टात् मूर्तामूर्तरूपाद्ब्रह्मणोऽन्यत्परं नास्तीति परतत्त्वनिषेधात्कारणाद्ब्रह्मणोऽन्यत्परं नास्ति । सेतुत्वव्यपदेशस्तु ‘एषां लोकानामसम्भेदाये’ति सर्वलोकासङ्करकरत्वकृतः । “एतं सेतुं तीर्त्वे"ति तरतिरपि, ‘वेदान्तं तरती’तिवत्प्राप्तिवचनः । * चतुष्पाद्ब्रह्म * षोडशकलमित्युन्मानव्यपदेशोऽपि, * वाक्पादः … चक्षुः पादः * इतिवदुपासनार्थः । संभवति चापरिमितस्यापि तत्तद्देशसंबन्धितयोन्मितत्वानुसन्धानम् । * अमृतस्यैष सेतुरिति स्वस्यैवामृतस्य स्वयमेव प्रापकमुच्यते, * यमेवैष वृणुते तेन लभ्यः * इत्यादिश्रुतेः । * ततो यदुत्तरतरमित्यपि, * तेनेदं पूर्णमिति निर्दिष्टात्पुरुषादन्यस्य न परत्वमाह; अपि तु * तमेव(वं विद्वानमृत इह भवति) विदित्वाऽतिमृत्युमेति नान्यः पन्थाः विद्यतेऽयनाय * इति पूर्वप्रतिज्ञातं पुरुषवेदनस्यामृतत्वहेतुत्वमन्यस्य चापथत्वं सहेतुकमुपसंहरति । * यस्मात्परं नापरमस्ति किञ्चित् * इत्यारभ्य * तेनेदं पूर्णं पुरुषेण सर्व * मिति पुरुषस्य सर्वस्मात्परत्वं ज्यायस्त्वमन्यस्य परत्वाभावं च प्रतिपाद्य, ततो हेतोः यदुत्तरतरं पुरुषतत्त्वम्; तदेवारूपमनामयम्; * य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापि यन्तीति पूर्वप्रतिज्ञातमेवोपसंहृतम् ॥
सूत्रार्थस्तु - परमतः - “जन्माद्यस्य यतः” इत्यारभ्य ‘अतोऽनन्तेन तथाहि लिङ्गम्” इत्यन्तेन प्रतिपादितान्निखिलजगदेककारणात्सर्वान्तरात्मनः निरस्तनिखिलदोषगन्धानवधिकातिशयानन्तकल्याणगुणाकरात् परस्माद्ब्रह्मणः परमपि किञ्चिदस्तीति कश्चिन्मन्यते । कुतः ? सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । व्याख्याताश्चैते ॥३०॥
सामान्यात्तु ॥3.2.31॥
तुशब्दः पक्षं व्यावर्तयति; सेतुत्वव्यपदेशस्तावत् तस्मात्परं नावगमयति, सेतुसामान्यात् - सादृश्याज्जगद्विधृतिरूपात् ब्रह्मणस्तथाव्यपदेश इति श्रुतिरेव सेतुशब्दं व्याचष्टे - * अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदायेति । यद्यत्स्वभावा लोकास्सृष्टास्तत्तत्स्वभावासङ्कराय सर्वान् लोकानयमेव सेतुवद्बिभर्तीति सेतुरित्यर्थः ॥
बुद्ध्यर्थः पादवत् ॥3.2.32॥
“चतुष्पाद्ब्रह्म”, “पादोऽस्य विश्वा भूतानी"त्युन्मानव्यपदेशस्तथाऽनुसन्धानार्थः; “वाक्पादः ….. चक्षुः पादः” इतिवत् ॥
अपरिमितस्वरूपस्यानुसन्धानार्थतयाऽपि कथं परिमितत्वमित्यत आह -
स्थानविशेषात्प्रकाशादिवत् ॥3.2.33॥
प्रतिपन्नवागादिस्थानविशेषसंबन्धात्तत्तत्स्थानसंबन्धित्वेनावच्छिद्यानुसन्धानं युज्यते; यथा प्रकाशाकाशादेर्विततस्यापि वातायनघटादौ ॥
उपपत्तेश्च ॥3.2.34॥
अमृतस्यैष सेतुरित्यमृतस्य स्वस्य स्वयमेव प्रापक इति सेतुत्वव्यपदेशोपपत्तेश्चान्यत्परमस्तीति कल्पनं न युज्यते । * नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । इति हि श्रूयते ॥
तथाऽन्यप्रतिषेधात् ॥3.2.35॥
“तेनेदं पूर्णं पुरुषेण सर्वं” “ततो यदुत्तरतर"मिति पुरुषादन्यस्य न परत्वमाह । * न तस्येशे * न ह्येतस्मादिति नेत्यन्यत्परमस्ति * यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् * यस्मादपरं नास्ति किञ्चिदित्यर्थः । एवमादिषु पुरुषादन्यस्य परत्वप्रतिषेधात् । * ततो यदुत्तरतरमिति तु यतः पुरुषतत्त्वमेवोत्तरतरम्; ततो हेतोः यदुत्तरतरं पुरुषतत्त्वम्; तदेव * अरूपमनामयमित्यादिना व्याख्यातम् । * य एतद्विदुरमृतास्ते भवन्तीति * तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनायेति प्रतिज्ञातमेवोपसंहृतम् । * न तस्येशे कश्चन तस्य नाम महद्यशः * इति च पुरुषतत्त्वमेव वदति । अनन्तरम् * अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ * इति पुरुषतत्त्ववाचिनैकवाक्यत्वावगमात् * अम्भस्य पारे * यमन्तस्समुद्रे कवयो वयन्ति * इति च प्रक्रमात् ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥3.2.36॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः । अनेन ब्रह्मणा सर्वस्य व्याप्तत्वं “तेनेदं पूर्णं पुरुषेण सर्वम् * अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः * नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः * इत्यायामशब्देभ्यः सर्वव्याप्तिवाचिशब्देभ्योऽवगम्यते । एवमवगम्यमानमेतस्मात्परं वारयतीत्यर्थः । आदिशब्दात् * आत्मैवेदं सर्वमित्यादयो गृह्यन्ते । अतः * यतो वा इमानीत्यादिनाऽवगतजगन्निमित्तोपादानकारणा(णभावा)द्ब्रह्मणोऽन्यत्परं न विद्यते ॥