12 अहिकुण्डलाधिकरणम्

उभयव्यपदेशात्त्वहिकुण्डलवत् ॥3.2.26॥
“द्वे वाव ब्रह्मणो रूपे” इत्यादिनोपदिष्टमचिद्वस्तुनो ब्रह्मरूपत्वं किं ब्रह्मस्वरूपस्यैवाचिद्रूपेण परिणामाद्भवति, उत परस्मिन्ब्रह्मण्यचिद्वस्तुनि चैकजातियोगात्, अथ जीववद्ब्रह्मशरीरतया ब्रह्मविशेषणत्वेनेति संशयः । भिन्नत्वाभिन्नत्वरूपोभयव्यपदेशोपपत्तये ब्रह्मैवाचिद्रूपेण परिणमत इति प्रथमः पक्षः ।
तथा तु सति ब्रह्मणो निर्दोषत्वादिकं बाध्येत इत्येकजातियोगेनेति द्वितीयः पक्षः । एवं सति * आत्मैवेदं सर्वम् * ब्रह्मैवेदं सर्वम् इति ब्रह्मस्वरूपस्यैव सर्वशब्दवाच्यत्वव्यपदेशबाधस्स्यात् । न ह्येकैव गोव्यक्तिः खण्डो गौः, मुण्डो गौः, पूर्णशृङ्गो गौरित्यादिसर्वगोव्यक्तिवाचकशब्दैरभिधीयते । अतो जीवस्येव ब्रह्मशरीरतया ब्रह्मविशेषणत्वेनाचिद्वस्तुनोऽपि ब्रह्मांशत्वमिति राद्धान्तः । सूत्रार्थस्तु - तुशब्दोऽवधारणे । अहेः कुण्डलभावादिवत् ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थानम् ; कुतः? नानात्वैकत्वोभयव्यपदेशात् ॥

प्रकाशाश्रयवद्वा तेजस्त्वात् ॥3.2.27॥
वाशब्दोऽनन्तरोक्तव्यावृत्त्यर्थः; यथाप्रकाश-तदाश्रययोः तेजस्त्वेनैकजातियोगादभिन्नत्वं भिन्नत्वञ्च, एवमचिद्ब्रह्मणोरपि ॥

पूर्ववद्वा ॥3.2.28॥
वाशब्दः पक्षद्वयव्यावृत्त्यर्थः; पूर्ववत् - यथा पूर्वत्र * अंशो नानाव्यपदेशात् * प्रकाशादिवत्तु नैवं परः * इत्यभुयव्यपदेशोपपत्तये, ब्रह्मणो निर्दोषत्वसिद्धये च प्रकाशजातिगुणशरीरवत् पृथक्सिद्ध्यनर्हविशेषणतया जीवस्य ब्रह्मांशत्वमुक्तम्; एवमचिद्वस्तुनोऽपि । अचिद्वाचिशब्देनाप्यचिद्वस्तुविशिष्टं ब्रह्मैवाभिधेयमिति * आत्मैवेदं सर्वं * ब्रह्मैवेदं सर्वम् * इत्यभेदव्यपदेशोपपत्तिः । विशेषणविशेष्ययोस्स्वरूपस्वभावभेदज्ञापनाय विशेषणविशेष्यौ निष्कृष्य भेदेन व्यपदेशश्चोपपद्यते । * क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः * इति ब्रह्मणो निर्दोषत्वञ्च ॥

प्रतिषेधाच्च ॥3.2.29॥
*स वा एष महानज आत्माऽजरोऽमरः *नास्य जरयैतज्जीर्यति…. विजरो विमृत्युः" इत्यादिभिः ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यभावेनैवांशांशिभाव इत्यर्थः ॥ इति अहिकुण्डलाधिकरणम् ॥