न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥3.2.11॥
किं जीवस्येव तदन्तर्यामिणः परस्य ब्रह्मणोऽपि जागरादिस्थानप्रयुक्तदोषास्संभवन्ति उत नेति संशयः । * यः पृथिव्यां तिष्ठन् * य आत्मनि तिष्ठन् * यश्चक्षुषि तिष्ठन् यो रेतसि तिष्ठन् इत्यादिना जीवस्येव सर्वावस्थास्ववस्थितिवचनात्, छन्दतोऽपि पूयशोणितादिमज्जनमपुरुषार्थ एवेति, सर्वे दोषाः भवन्तीति पूर्वः पक्षः । राद्धान्तस्तु - * अपहतपाप्मा विजरः *निरवद्यं निरञ्जनम् *सत्यकामस्सत्यसङ्कल्पः *यस्सर्वज्ञस्सर्ववित् *यो मामजमनादिं च वेत्ति लोकमहेश्वरम् परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे इत्यादिश्रुतिस्मृतिभ्यो निरस्तनिखिलदोषगन्धतासार्वज्ञ्यसत्यसङ्कल्पत्वाद्युभयलक्षणस्वरूपावगतेः परस्य ब्रह्मणस्सर्वत्रान्तर्यामितयाऽवस्थितस्यापि न दोषगन्धस्संभवति, अपि तु सर्वनियमनरूपलीलारस एव ॥ सूत्रार्थस्तु - न स्थानतोऽपि परस्य - पृथिव्यात्मादिष्वन्तर्यामितयाऽवस्थितस्यापि परस्य ब्रह्मणः, जीवस्य तत्रतत्रावस्थितस्य ये दोषा उक्ताः, ते न संभवन्ति, कुतः? उभयलिङ्गं सर्वत्र हि - हिर्हेतौ, यतस्सर्वत्र श्रुतिस्मृतिषु निरस्तनिखिलदोषत्वसमस्तकल्याणगुणात्मकत्वरूपोभयलिङ्गम् - उभयलक्षणं परं ब्रह्मावगतम् ॥
भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥3.2.12॥
यथा जीवस्य स्वतोऽपहतपाप्मत्वादिगुणकस्यापि देवादिशरीरसंबन्धितयाऽवस्थाभेदादुक्तदोषसम्बन्धित्वम् । एवं परस्यापि *यस्य पृथिवी शरीरमिति शरीरसंबन्धित्वावस्थाभेदात्ते दोषाः स्युरिति चेन्न, प्रत्येकं - प्रतिपर्यायम्, अतद्वचनात् - दोषासंबन्धित्ववचनात् । *यस्य पृथिवी शरीरमित्यादिषु एष त आत्माऽन्तर्याम्यमृतः इत्यन्तर्यामिणो हि निर्दोषत्वमुच्यते, जीवस्य तु पराभिध्यानात्तत्स्वरूपं तिरोहितमित्युक्तम् । अतश्शरीरसंबन्धित्वेऽपि परस्यैते न दोषाः ॥
अपि चैवमेके ॥3.2.13॥
अपि च यदिदं जीवपरयोरेकस्मिन् शरीरे शरीरित्वेनावस्थितयोर्दोषसंबन्धित्वं तद्विपरीतत्वं चोक्तम्, एवमेके शाखिनस्स्वशब्देनाधीयते - * द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति इति ॥
मनुष्यादिशरीरेषु शरीरित्वमेव जीवस्य नामरूपभाक्त्वेन कर्मवश्यताहेतुः, तत्परस्याप्यविशिष्टं चेत्; कथं परस्य ब्रह्मणोऽकर्मवश्यत्वेन कर्मफलानशनमुच्यते इत्यत आह -
अरूपवदेव हि तत्प्रधानत्वात् ॥3.2.14॥
मनुष्यादिशरीरेषु शरीरित्वेऽप्यरूपवदेव हि तत् परं ब्रह्म, कुतः? प्रधानत्वात् - निर्वाहकत्वात्; जीवस्य नामरूपभाक्त्वेन कर्मफलाशनं निर्वोढुं परस्य तत्तच्छरीरे शरीरित्वेनावस्थानम् । यथाह – *यस्य पृथिवी शरीरम् *यस्याऽत्मा शरीरम्….आत्मानमन्तरो यमयति *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा *आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म *इति । अत उभयलिङ्गमेव परं ब्रह्म ॥
सत्यं ज्ञानमनन्तं ब्रह्मेति प्रकाशैकस्वरूपता ब्रह्मण उच्यते, कथमुभयलिङ्गत्वमित्यत आह -
प्रकाशवच्चावैयर्थ्यात् ॥3.2.15॥
यथा सत्यं ज्ञानमिति वाक्यावैयर्थ्यात्प्रकाशो ब्रह्मणः स्वरूपमित्यवगम्यते; तथा *यस्सर्वज्ञस्सर्ववित् परास्य शक्तिर्विविधैव श्रूयते इत्यादिवाक्यावैयर्थ्यात्कल्याणगुणाकरत्वं च ब्रह्मणस्स्वरूपमित्यवगम्यते; इत्युभयलिङ्गमेव ॥
आह च तन्मात्रम् ॥3.2.16॥
सत्यं ज्ञानमिति वाक्यं ब्रह्मणो ज्ञानं स्वरूपमित्येतावन्मात्रमाह - न पुनः कल्याणगुणाकरत्वं निषेधति ॥
दर्शयति चाथो अपि स्मर्यते ॥3.2.17॥
दर्शयति च वेदान्तवाक्यगणो निरस्तनिखिलदोषत्वं कल्याणगुणाकरत्वं च *निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् *तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् *इत्यादिकः । स्मर्यते च *यो मामजमनादिं च वेत्ति लोकमहेश्वरम् अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् इत्यादिषु ॥
अत एव चोपमा सूर्यकादिवत् ॥3.2.18॥
यतो ब्रह्मणो निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वेनोभयलिङ्गत्वात् पृथिव्यादिस्थानतोऽपि न तत्तत्प्रयुक्तदोषगन्धसंभवः, अत एव शास्त्रेषु च जलसूर्यकाद्युपमा क्रियते *आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैको ह्यनेकस्थो जलाधारेष्विवांशुमान् इत्यादिषु ॥
अम्बुवदग्रहणात्तु न तथात्वम् ॥3.2.19॥
तुशब्दश्चोद्यं द्योतयति । अम्बुनीवाग्रहणात् - यथा अम्बुनि सूर्यः तत्रानवस्थित एव भ्रान्त्या तत्र स्थित इव गृह्यते, नतथा परमात्मा पृथिव्यादौ गृह्यते, * यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः* इति परमार्थतः स्थितो गृह्यते, अतो न सूर्यस्येव तत्प्रयुक्तदोषगन्धाभावः परमात्मनः, परमार्थतः स्थितत्वात् ॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च ॥3.2.20॥
पृथिव्यादिषु विषमेषु स्थानेषु स्थितस्यापि परमात्मनः तदन्तर्भावात् - तत्रावस्थानतः तत्प्रयुक्तवृद्धिह्रासभाक्त्वं जलधारेष्विवांशुमान् इति दृष्टान्तेन निवर्त्यते । कुतोऽवगम्यते एतावन्मात्रमिति; उभयसामञ्जस्यादेवम् - उभयदृष्टान्तोपादानसामञ्जस्यादेवमवगम्यते । * आकाशमेकं हि यथा घटादिषु पृथग्भवेदिति घटकरकादिषु विषमेष्ववस्थितमाकाशं, * जलाधारेष्विवांशुमानिति चांशुमन्तं परमार्थतः स्थितमनवस्थितं चोभयं दृष्टान्ततयोपादाय, * तथाऽऽत्मैको ह्यनेकस्थः * इति निगमनात् तत्तत्स्थानप्रयुक्तवृद्धिह्रासभाक्त्वनिवर्तनमात्रं विवक्षितमित्यवगम्यते । अन्यत्रापि दृष्टान्तदार्ष्टान्तिकयोस्सर्वसाम्याभावेऽपि ‘सिंह इव माणवकः’ इत्यादिषु दृष्टान्तोपादानदर्शनाच्चैवमवगम्यते ॥
अथात आदेशो नेति नेतीत्यादिना पूर्वप्रकृतस्य मूर्तामूर्तप्रपञ्चस्य ब्रह्मणो रूपत्वप्रतिषेधान्निष्प्रपञ्चं सन्मात्रमेव ब्रह्म; न पुनरुक्तस्वरूपमुभयलिङ्गमित्याशङ्क्याह -
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥3.2.21॥
हीति हेतौ । “द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तमेव च” इत्यादिना स्थूलस्य सूक्ष्मस्य च प्रपञ्चस्य ब्रह्मणो रूपतया प्रमाणान्तराप्रज्ञातस्य अत्रैव रूपतयोपदिष्टस्य निषेधासंभवात् प्रकृतैतावत्त्वं हि ब्रह्मणः प्रतिषेधति, पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्मेति हि * अथात आदेशो नेति नेतीत्यत्र प्रतिपाद्यत इत्यर्थः । ततो ब्रवीति च भूयः - ततः पूर्वोक्ताद्भूयस्त्वं ब्रवीति च वाक्यशेषः, * न ह्येतस्मादिति नेत्यन्यत्परमस्ति अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् * इति । नेति निर्दिष्टादेतस्माद्ब्रह्मणोऽन्यन्न ह्यस्ति; परब्रह्मणोऽन्यत्स्वरूपतो गुणतश्चोत्कृष्टं न ह्यस्तीत्यर्थः । * सत्यस्य सत्यमिति ब्रह्मणो नामधेयम्; तस्य निर्वचनम् * प्राणा वै सत्यं तेषामेष सत्यमिति । प्राणसाहचर्याज्जीवात्मानः - प्राणाः । ते हि वियदादिवदनुत्पाद्यत्वेन सत्यम् । तेभ्योऽप्येष सत्यम्; ते हि कर्मानुगुणदेहयोगेन जन्मवन्तः; तदप्यस्य नास्तीति तेषामेष सत्यम्, ज्ञानसङ्कोचविकासरूपविकारस्याप्यसंभवात् । अतः प्रमाणन्तराप्रज्ञातस्वरूपस्य ब्रह्मणो मूर्तामूर्तप्रपञ्चप्रकारतयोपदेशात्, पुनरपि प्रकारविशेषोपदेशाच्च, अथात आदेशो नेति नेतीति पूर्वप्रकृतेयत्ता ब्रह्मणः प्रतिषिध्यत इत्यर्थः ॥
ननुच वस्तुतः प्रत्यक्षेण निर्विशेषसन्मात्रमेव गृह्यते; तदतिरिक्तं भ्रान्त्या प्रतीयमानं सविशेषरूपमनूद्य * नेति नेतीति निषिध्यत इत्यत्राह -
तदव्यक्तमाह हि ॥3.2.22॥
ब्रह्मणः प्रमाणान्तराप्रज्ञाततां द्रढयति; तत् ब्रह्म न केनापि प्रमाणेन व्यक्तम्; तथा आह हि श्रुतिः - * न संदृशे तिष्ठति रूपमस्य * इत्यादिका ॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥3.2.23॥
अपि च संराधन एवोपलभ्यते; संराधनं सम्यक्प्रीतियुक्तं भजनम्, उपासनमिति यावत् । उपासनरूपतत्प्रीणनेन विना केनापि नोपलभ्यत इति श्रुतिस्मृतिभ्यामवगम्यते । * नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन, यमेवैष वृणते तेन लभ्यः* * नाहं वेदैर्न तपसा न दानेन न चेज्यया….
भक्त्या त्वनन्यया शक्यः * इति हि श्रुतिस्मृती । अतः केनापि प्रमाणेनानभिव्यक्तस्वरूपत्वाद्ब्रह्मणः * द्वे वाव ब्रह्मणो रूपे * इत्यादिना ब्रह्मणः प्रकारतयोपदिष्टं जगदैश्वर्यं * नेति नेतीति न निषिध्यते; किन्तु प्रकृतेयत्तामात्रं तु निषिध्यते ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥3.2.24॥
इतश्च ज्ञानानन्दवज्जगदैश्वर्यमपि ब्रह्मणो रूपम्; येषां वामदेवादीनां संराधनरूपकर्मण्यभ्यासात्प्रकाशश्च सञ्जातः - दर्शनम् सञ्जातम्; तेषां दर्शने प्रकाशादिवत् ज्ञानादेरिव जगदैश्वर्यस्याप्यवैशेष्यं प्रतीयते, * तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च अहं कक्षीवान् * इत्यादौ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥3.2.25॥
अतोऽनन्तेन कल्याणगुणगणेन योगो ब्रह्मणस्सिद्धः । तथा सत्युभयलिङ्गमेव ब्रह्म ॥ इति उभयलिङ्गाधिकरणम् ॥